________________
Shri Mahavir Jain Aradhana Kendra
5
१४०
www.kobatirth.org
व्योमवत्यां
क्षमक्षं प्रतीत्योत्पद्यते सामग्री, तस्याः कारकसाकल्यरूपत्वात् । साकल्यन्तु चरमसहकारिप्राप्तावेव न पूर्वमित्युत्पद्यत एव । तथा ज्ञायतेऽनयेति ज्ञानमक्षाद्युपलक्षिता सामग्र्येव अव्यभिचारि, व्यवसायात्मिका, अव्यपदेश्यपदेन ज्ञानजनकत्वेन सामग्र्यास्तद् व्यपदेश इति सामग्रीविशेषणपक्षेऽपि विशेषणयोगः ? सत्यम्, तथापि अव्यभिचारित्वादिविशेषणानि फलस्य, तद्द्वारेण तु सामग्र्या भवन्तीति परं फलविशेषणपक्षः ।
Acharya Shri Kailassagarsuri Gyanmandir
स्वरूपविशेषणपक्षस्तु निरस्त एव प्रमाणशब्दस्य करणार्थत्वात् । तथाहि, प्रमीयतेऽनेनेति प्रमाणम्, येन कर्तृकर्मविलक्षणेन प्रमा क्रियते । स्वरूपविशेषणपक्षे तु न जन्यजनकरूपतया प्रमाणस्य प्रामाण्यम्, किन्त्वव्य10 भिचारित्वादिधर्मोपेतत्वेनैव । तच्चातिव्यापकमव्यापकञ्च । तथा च परामर्शादिज्ञानस्याप्येवं रूपमस्ति, न च तस्य प्रत्यक्षत्वम्, अनुमितिजनकत्वेनानुमानत्वात् । साग्र्यास्तु प्रत्यक्षत्वेनाभिमताया: प्रत्यक्षत्वं न लभ्यत इत्यव्याप्तिः ।
सौगतानान्तु प्रमाणफलयोरव्यतिरेक इति तत्पक्षे स्वरूप विशेषणतैव 15 घटते । तथा[हि], सौत्रान्तिकानामाकारः प्रमाणं प्रमेयोऽर्थः स्वसंवित् फलमिष्यत इति ज्ञानं स एव प्रमाणफलव्यवहारः कल्पनं वा । न चैतद् युक्तम्, क्रियाकरणयोरभेदानुपलब्धेः । न च बोधे विषयाकारः सम्भवतीत्यु - क्तम्, कथं तस्य प्रामाण्यम् ? न च मेयरूपतया विषयपरिच्छेद्ये प्रामाण्यं युक्तम्, विषयस्यात्यन्तपरोक्षतया तेन सह प्रतिबन्धानुपलब्धेः । यदि चागृ20 हीत प्रतिबन्धो व्यापारो विषयविशेषं गमयेत् अतिप्रसङ्गः स्यात् । तथा च रूपाकारस्य रूपवद् रसादिव्यवस्थापकत्वमपि स्यात्, उभयत्रापि प्रतिबन्धानुपलम्भस्याविशेषात् । न चाकारमात्रसंवेदन वादिनो विषयविशेषान्तरग्रहणम् आकारे सम्भवति, विषयस्यात्यन्तपरोक्षत्वेऽवस्थितस्य प्रतिसन्धातुरभावे च अन्वयव्यतिरेकयोरत्यन्तपरोक्षत्वात् ।
營
25 परकीयञ्च प्रत्यक्षलक्षणं गुरुभिविस्तरेण निरस्तमिति नोक्तम् । अक्षशब्दस्यानेकार्थत्वादाह अक्षाणीन्द्रियाणि । तानि तु प्राणरसन
*
For Private And Personal Use Only