SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5 १४६ www.kobatirth.org अथ प्रमाणफलयोर्व्यतिरेकाभ्युपगमात् सामान्यविशेषेषु स्वरूपालोचनस्य प्रमारूपत्वादुत्पत्तौ किं प्रमाणमित्याह * सामान्यविशेषज्ञानोत्पत्तावविभक्तम्* विशेषणज्ञानशून्यम्, आलोच्यतेऽनेनेत्यालोचनमात्रम् । इन्द्रियार्थसन्निकर्षा - द्युपलक्षितं कारकसामाग्रयं प्रत्यक्षं प्रमाणं, प्रमेयं सामान्यविशेषा इति । अथ तस्मिन्नपि स्वरूपालोचने कस्मान्न ज्ञानान्तरमिष्यत इत्याह न तस्मिन् स्वरूपालोचनेऽन्यत् प्रमाणान्तरं ज्ञानान्तरमस्तीति, अफलरूपत्वान्निष्प्रयोजनत्वादिति । तथाहि, विशेष्यज्ञानं विशेषणानुरक्तम्, अन्यथानुपपद्यमानं विशेषणज्ञानसत्तां दर्शयति । न चैवं विशेषणज्ञाने विशेषणानुरागोऽस्ति । ज्ञानान्तराभ्युपगमे चानवस्था स्यादिति विशेष्यज्ञानानुत्पत्तिरेव । दृष्टञ्च 10 विशेष्यज्ञानम्, अतो न विशेषणज्ञाने ज्ञानान्तरमस्तीति । 25 व्योमवत्यां अन्ये तु 'सामान्यविशेषेषु स्वरूपालोचनमात्रम्' इति मात्राभिधानेन निराकारं प्रत्यक्षं प्रमाणफलमिति ब्रुवते । सामान्यविशेषाश्च द्रव्यादय एवानुगतव्यावृत्तज्ञानविययत्वादुपचारेण विवक्षिताः । अत्र हि ज्ञानविशेषस्याकारप्रतिषेधेऽन्यत्राकारभ्युपगमः स्यात् । शेषं पूर्ववत् । यथा ज्ञाने नाकारः 15 सम्भवति तथोक्तं ज्ञान[ [कार ]वाद प्रतिषेधावसरे । Acharya Shri Kailassagarsuri Gyanmandir * अथवा सर्वेषु पदार्थेषु चतुष्टयसन्निकर्षात् यद् अवितथमव्यपदेश्यं ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणम्, प्रमेया द्रव्यादयः पदार्थाः, प्रमाता आत्मा, प्रमितिर्गुणदोषमाध्यस्थदर्शनमिति । * अथवा * इति प्रमाणफलविभागे प्रकारान्तरोपदर्शनम्, न तु विकल्प - 20 नार्थम् । हेयादिज्ञानोत्पत्तावपि द्रव्यादिज्ञानं प्रमाणमिति वाक्यार्थः । तदाह : सर्वेषु पदार्थेषु द्रव्यादिषु : यदवितथमव्यपदेश्यं ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणम्, प्रमेया द्रव्यादयः पदार्थाः, प्रमाता आत्मा, प्रमितिर्गुणदोषमाध्यस्थ्यदर्शनम् * इति । गुणदर्शनमुपादेयज्ञानम्, दोषदर्शनं हेयज्ञानम्, उपेक्षणीयज्ञानञ्च माध्यस्थ्यदर्शनमिति । ननु द्रव्यादिज्ञानोत्पत्तावनेककालव्यवधानेनोपादेयादिज्ञानस्योत्पत्तेः कथं द्रव्यादिज्ञानफलत्वम् ? पारम्पर्येणेति । तथाहि द्रव्यत्वादिजातीयस्य पूर्वं For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy