SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४७ सुखदुःखसाधनत्वोपलब्धेस्तज्ज्ञानानन्तरं यद् यद् द्रव्यत्वादिजातीयं तत्तत् सुखसाधनमित्यविनाभावस्मरणम्, तथा चेदं द्रव्यत्वादिजातीयमिति परामर्शज्ञानम्, तस्मात् सुखसाधनमिति विनिश्चयः । तत उपादेयज्ञानम्, अतः पारम्पर्येण द्रव्यादिज्ञानफलत्वम्, समानञ्चैतद्धेयोपेक्षणीयज्ञानोत्पत्तावपीति । गुणप्रकरणम् 骆 5 अथोपादेयादिज्ञानस्य सुखसाधनत्वादिविनिश्चयाद् विषयभेदो वक्तव्यः । अन्यथा ह्यनुमानफलत्वमेव स्यात्, प्रत्यक्षफलत्वञ्च सुखदुःखादिसाधनत्वादिविनिश्चयानन्तरमिन्द्रियार्थसन्निकर्षेणोपादेयादिज्ञानस्योत्पत्तेः ? सत्यम्, तथापि विषयभेदो विशेषणभेदात् । सुखादिसाधनत्वविशेषणं सुखसाधनादिज्ञानात्, तस्माच्चोपादेयादिज्ञानमिति । लिङ्गदर्शनात् सञ्जायमानं लैङ्गिकम् । Acharya Shri Kailassagarsuri Gyanmandir प्रत्यक्षानन्तरमुद्देशवतो लैङ्गिकस्य लक्षणपरीक्षार्थमाह लिङ्गदर्शनात् सञ्जायमानं लैङ्गिकम् इति । यद्यपि लिङ्गदर्शनात् संस्कारो विपर्ययज्ञानं संशयज्ञानञ्च भवति तथापि विद्यासामान्यलक्षणानुवृत्तौ विशेषलक्षणस्याभिधानान्नातिप्रसङ्गः । । यद् वा अवितथं व्यवसायात्मकमव्यपदेश्यमिति विशेषणमिहाप्यनुवर्तनीयम् । अविनाभावसम्बन्धस्मरणन्तु विद्यारूपलिङ्गदर्शनात् सञ्जायते तद्व्यवच्छेदार्थं द्रव्यादिषूत्पद्यत इत्यनुवर्तनीयम् । तदेवं लिङ्गदर्शनाद् यदव्यभिचारित्वादिविशेषणं ज्ञानमनुमेये तद् यतः परामर्शज्ञानोपलक्षितात् कारकसमूहाद् भवति तल्लैङ्गिकमिति । परामर्शज्ञानं वा लिङ्गदर्शनाद् यथोक्तविशेषणज्ञानमुत्पद्यते साधकतमत्वापेक्षयानुमानम् । 節 For Private And Personal Use Only लिङ्ग पुनः यदनुमेयेन सम्बद्धं प्रसिद्धश्च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥ विपरीतमतो यत् स्यादेकेन द्वितयेन वा । विरुद्धा सिद्धसन्दिग्धम लिङ्गं काश्यपोऽब्रवीत् ॥ किं पुर्नालङ्गमित्याह लिङ्गं पुनः यदनुमेयेन सम्बद्धम् * इत्यादि । * 10 15 20 25
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy