________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१८५
भावेनैव ज्ञायत इति । अत्र च कार्यस्य सद्भावाद् विशिष्टोऽदृष्ट: कारणत्वेन कल्प्यत इति ।
अन्ये तु शब्दार्थोपभोगप्रापकादृष्टनियमिताः पूर्ववर्णानुभवजनितसंस्काराः पूर्ववर्णेष्वेकं स्मरणमारभन्ते तत्सहकारी चान्त्यो वर्णः पदम् । यद्वा संस्कारमेकं विचित्रमारभन्ते, तस्माच्च पूर्ववर्णेष्वेकं स्मरणमिति। 5 ____ अन्ये तु पूर्ववर्णानां तज्ज्ञानानाञ्च अतीतानामपि अन्त्यवर्णसहकारित्वम्, अन्वयव्यतिरेकोपपत्तेः । यथा हि, वर्तमानस्य कारणत्वम् अन्वयव्यतिरेकाभ्यां विज्ञातम्, एवमतीतस्यापीति । यद् वा पूर्ववर्णविनाशास्तज्ज्ञानप्रध्वंसाश्च समीपतिनोऽन्त्यवर्णसहकारिण इति क्षीणार्थापत्तिः । एवंविधकल्पनानभ्युपगमे च वर्णोच्चारणवैयर्थ्यमेव स्यात् । न च स्फोटाभिव्य[क्त ? 10 ञ्जक]मुच्चारणम्, समस्तव्यस्तविकल्पानुपपत्तेः। न समस्तैरभिव्यज्यते, समुदायानभ्युपगमात्, न व्यस्तैः, एकेनैवाभिव्यक्तौ शेषोच्चारणवैयर्थ्यप्रसङ्गात् । अथ कल्पना आश्रीयते, सा अर्थप्रतिपत्तावपि समर्थेत्यलं स्फोटपरिकल्पनया । अभिन्नाकारञ्च ज्ञानमन्त्यवर्णविषयं वर्णत्वविषयं वा ।
यद् वा घनावस्थितिप्रत्यक्षेष्विव वर्णेषु भ्रान्तमभिन्नाकारं विज्ञान- 15 मिति न स्फोटसिद्धिः । शब्दाभिव्यक्ताविव स्फोटाभिव्यक्तावपि दोषा इति समानतया शब्दपरीक्षायामेवाभिधास्यन्त इत्यलम् ।
वाक्यकल्पना त्वेकस्मिन् पदे ज्ञानस्योत्पादः, संस्कारस्य सङ्केतस्मरणस्य च उत्पद्यमानता, ततः संस्कारस्य सङ्केतस्मरणस्य च उत्पादः, पदार्थप्रतिपत्तेरुत्पद्यमानता, पदज्ञानस्य विनश्यत्ता, ततः पदार्थप्रतिपत्तेरुत्पत्तिः, 20 स्मरणस्य विनश्यत्ता, पदज्ञानस्य विनाशः, संस्कारस्य द्वितीयपदज्ञानस्य च उत्पद्यमानता, ततो द्वितीयपदज्ञानस्योत्पादः, पूर्वसंस्कारसचिवेन पदार्थज्ञानेन संस्कारस्योत्पादः, संस्कारान्तरस्योत्पद्यमानता सङ्केतस्मरणस्याप्युत्पद्यमानता, पदार्थप्रतिपत्तेविनश्यत्ता, पूर्वसङ्केतस्मरणस्य विनाशः, ततो द्वितीयपदज्ञानसंस्कारस्योत्पादः सङ्केतस्मरणस्याप्युत्पादः, पदज्ञानस्य 25 विनश्यत्ता, पदार्थप्रतिपत्तेरुत्पद्यमानता, पूर्वपदार्थप्रतिपत्तेविनाश इत्ययं
२४
For Private And Personal Use Only