________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१२३ शाल्यकुराजनकत्वम्, न पुनर्यवाकुरसम्पादकत्वम् । एवमिन्द्रियाणां सम्यक्ज्ञानसम्पादकत्वमेव स्यात्, न विपरीतज्ञानोत्पादकत्वमिति । न च रजतादिज्ञानस्य शुक्तिकाद्यालम्बनत्वे प्रमाणमस्ति । तस्मात् सादृश्यज्ञानानन्तरं स्वाकारपरिभ्रष्टं स्मरणमुत्पद्यते इदं रजतमिति । तथाहि, इदमिति सादृश्यज्ञानं रजतमिति स्मरणं तदित्याकारशून्यम् ।।
नैतद्युक्तम्, रजतार्थिनः प्रवृत्तिनिवृत्त्योरभावप्रसङ्गात् । अथ ज्ञानयोर्भेदेऽपि इदमेव रजतमिति सामानाधिकरण्यं मन्यमानः प्रवर्तते ? तहीदमेव व्यधिकरणयोः सामानाधिकरण्यज्ञानं मिथ्याज्ञानमिति । अथ इदमिति सादृश्यं तत्र रजतमिति भेदाप्रतिभासे सति प्रवृत्तिर्वेष्यते ? तन्न, प्रतिपत्त्यभावस्याप्रवर्तकत्वात् । तथाहि, रजतार्थी इदमेव रजतमिति मन्यमानः 10 प्रवर्तते, नेतरथा । इदमिति ज्ञानस्यापरोक्षतानिर्देशो न ज्ञानान्तरम् । अन्यथा हि इदं रूपम् अयं रस इत्यादावपि स्मृतिप्रमोषः स्यात् ।
यच्चेदं रजतमिति ज्ञानस्य शुक्तिकाद्यालम्बनत्वे प्रमाणाभाव इत्युक्तम्, तदसत्, प्रत्यभिज्ञानादेः सम्भवात् । तथाहि, इयं शुक्तिका मन रजतमिति प्रतिभाता। तथा नेदं रजतमिति ज्ञानस्य शुक्तिकाविषयत्वाद् रजतमिति 15 ज्ञानस्य तद्विषयत्वम् । अन्यथा हि रजतमिति ज्ञानस्य शुक्तिकाविषयतामन्तरेण नेदं रजतमिति प्रतिषेधो न स्यात् प्रसक्तयभावात् । अप्रसक्तस्य च निषेधे नायं घटादिरित्यपि स्यात् । तथा च सति सर्वत्र प्रतिषेधपरम्पराप्रसङ्गः । न चैतदस्ति । तस्माज्ज्ञानद्वारेण रजतं तत्र प्रसक्तमिति निषिध्यते ।
20 यच्चेदम् उत्पत्तिकारणाभावादित्युक्तम्, तदसत्, दोषानुगृहीतस्येन्द्रियादेर्शानजनकत्वात् । यथाहि, दोषाभावे सतीन्द्रियं भावव्यतिरेकाभ्यां सम्यकज्ञानस्य जनकमुपलब्धं तथा दोषसद्भावे सति मिथ्याज्ञानस्यापीत्युभयरूपस्य कार्यस्येन्द्रियव्यापारेणोपलब्धरुभयार्थमिन्द्रियाणां सर्गो निश्चीयते । मिथ्यात्वञ्चास्य स्वविषयपरित्यागेन विषयान्तरोपसर्पणात् ।
अथालौकिकं रजतमेवास्य विषयमिति विषयान्तरोपसर्पणमसिद्धम् ? तन्न, अलौकिकरजताध्यवसाये सति प्रवृत्तिनिवृत्त्योरभावप्रसङ्गात् । अथा
25
For Private And Personal Use Only