________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
व्योमवत्यां
लौकिकस्यापि लौकिकतां मन्यमानः प्रवर्तते । कथं तहिं मिथ्याज्ञानस्यसम्भव इति ? न चैतस्मिन् पक्षे मिथ्येदं ममोत्पन्नं ज्ञानमिति बाधक ज्ञानं स्यात्, प्रत्यभिज्ञानाद्यसम्भवश्च । अस्ति प्रत्यभिज्ञानं शुक्तिकादौ, ममात्र रजतज्ञानमुत्पन्नम्, मिथ्यात्वप्रतिपत्तिश्चेति कथं मिथ्याज्ञानस्यासम्भवः ?
यदि चेदं रजतमिति ज्ञानं रजतालम्बनमेव स्यात्, तस्योपलब्धिलक्षणप्राप्तत्वात् समीपवत्तिनः कथमग्रहणम् ? यद् वस्तूपलब्धिलक्षणप्राप्तं दूरस्थेनाप्युपलभ्यते तदवश्यं समीपत्तिना गृह्यत एव, इन्द्रियादेस्तादवस्थ्यात् । न चैतदस्ति । तस्माद् रजतादिज्ञानं शुक्तिकादावुत्पन्न मिति ।
___ अन्ये तु यदेव रजतमन्यदेशकालविशेषितमुपलब्धं तदेवान्यदेशादि10 विशेषितमुपलभ्यत इति मिथ्यात्वं ब्रवते। तदसत, तस्यात्रा
विद्यमानतया विषयत्वासम्भवात् । तस्मादिन्द्रियव्यापारविषयोऽङ्गल्यादिना व्यपदिश्यमानश्च शुक्तिकादिरेव विषयः । अन्यथा विषयान्तरोत्पन्नं रजतज्ञानं कथं शुक्तिकाज्ञानेन बाध्येत ? विभिन्न विषयत्वे बाध्यबाधकमावस्यैवासम्भ
वात् । अतो रजतज्ञानं शुक्तिकायामुपजातं शुक्तिकाज्ञानेन स्वविषयसहकारिणा 15 बाध्यते मिथ्यात्वविशिष्टतया ज्ञाप्यते, विषयान्तरोपसर्पणात् । रजतज्ञानस्य
तु रजतं विषयः सर्वजनप्रतीतस्तत्त्यागेन शुक्तिकायामुत्पद्यमानत्वाद् व्यभिचारित्वम् । एतेन निविषयं कल्पनाज्ञानमेतद् इत्यपास्तम्, विषयस्य शुक्तिकादेः प्रमाणतो व्यवस्थापनात् ।
* असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानः * इत्यादिना निर्विषयं विपर्यय20 माहेति केचित् ।
उदाहरणन्तु * यथा व्यपगतघनपटलम्, अचलजलनिधिसदृशवपु:, अम्बरम्, अञ्जनचूर्णपुञ्जश्यामं शार्वरं तमः * इति । व्यपगतानि घनानां पटलानि यस्मिन् अम्बरे तत् तथोक्तम् । तथा न चलोऽचल:, स चासौ
जलनिधिश्च तेन सदृशं तुल्यं वपुः स्वरूपमस्येति । तच्च जलनिधिसदृशत्र25 पुरम्बरमिति ज्ञानम् अम्बरस्यातीन्द्रियत्वात् उक्तरूपस्यापि न जलनिधिना
सादृश्यग्रहणं सम्भवतीति निविषय: प्रत्यक्षाभिमानः । तथा शर्वर्यां भवं शार्वरं तमः । किंविशिष्टम् ? अञ्जनचूर्णपुञ्जश्याममिति । न चाभावरूपस्य
For Private And Personal Use Only