________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
व्योमवत्यां
संयोगाद् अधर्माच्चास्मिस्तदिति प्रत्ययो विपर्ययः । यथा गव्येवाश्व इति ।
असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति, यथा व्यपगतधनपटलमचलजलनिधिसदृशवपुरम्बरमञ्जनचूर्णपुजश्यामं शार्वरं तम इति ।
प्रत्यक्षविषये तावद् विपर्यमाह [* प्रसिद्धानेकविशेषयोः * ] प्रसिद्धा अनेका विशेषा ययोस्तौ तथोक्तौ तयोरिति विषयनिरूपणम् । [* पित्तकफानिलोपहतेन्द्रियस्य * इति पित्तञ्च कफश्चानिलश्चेति पित्तकफानिलास्तैरुपहतानीन्द्रियाणि यस्यासौ स तथोक्तस्तस्य विपर्ययो भवति । केभ्य इत्याह
* अयथार्थालोचनात् * इत्यादि। अयथार्थमालोच्यतेऽनेनेत्ययथार्थालोचनं 10 सादृश्यज्ञानम् ।
___ यद्वा आलोचितिरालोचनम, अयथार्थश्च तदालोचनञ्चेत्युपचारेण सादृश्यज्ञानमयथार्थालोचनहेतुत्वाद् विवक्षितम्, तस्मात् । असन्निहितश्चासौ विषयश्चेति तथोक्तस्तस्मिन् ज्ञानम्, तस्माज्जातोऽसन्निहितविषयज्ञानजः,
स चासौ संस्कारश्चेति ! संस्कारकार्यत्वात् स्मृतिः संस्कारपदेन विवक्षिता । 15 तत्संस्कारमपेक्षत इत्यात्ममनःसंयोगस्तदपेक्षः। तस्मादसमवायिकारणाद्
अधर्माचच विपर्ययः । स च कि स्वरूप: ? * अतस्मिस्तदिति प्रत्ययः * इति । तथाहि, अतस्मिस्तदिति प्रत्ययः, इतरस्माद् भिद्यते, विपर्यय इति वा व्यवहर्तव्यः, अयथार्थालोचनादिभ्य उत्पद्यमानत्वादिति । यस्त्वेवं न भवति
न चासावुक्तकारणेभ्यो निष्पद्यते (तस्मिस्तदिति प्रत्ययश्च ?) यथा संशया20 दिरिति । तस्योदाहरणं * यथा गव्येवाश्व इति । यथाहि, दूराद् विषाणादिविशेषमनुपलभमानस्याश्वसादृश्यविशेषितपिण्डोपलम्भाद् अश्वानुस्मरणाच्च गव्येवाश्वोऽयमिति ज्ञानमुत्पद्यते, तथा मरीचिषूदकज्ञानम्, शुक्तिकायां रजतज्ञानमिति ।
ननु चायुक्तमेतत्, विपर्ययज्ञानसम्पादकस्य कारकस्यैवासम्भवात् । 25 तथाहि, इन्द्रियाणि सम्यक्ज्ञानसम्पादनायोत्पन्नानि तस्मिस्तदिति रूपत्वात्, कथं मिथ्याज्ञानं कुर्युरिति । न च काचकामलादिदोषवशाद् विपरीतज्ञानजनकत्वम्, दुष्टस्य कारकस्य कार्याजनकत्वात् । यथा हि, शालिबीजस्य तैलादिनाभ्यक्तस्य
For Private And Personal Use Only