________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१२१ संशयोत्पत्तावविशेषात्, प्रत्यक्षत्वञ्चोभयत्रापि समानमिति । सत्यम् । तथापि सामान्यविशेषितस्य लिङ्गोपलम्भात् साध्यधर्मविशेषिते धर्मिणि संशयाभ्युपगमोऽन्यत्र च अलिङ्गभूते साध्यधर्मरहिते सामान्यवति प्रत्यक्षे धर्मिणीति विशेषः । किञ्चित् साधर्म्यन्तु न निषिध्यते, सामान्यलक्षणाक्रान्तिश्चान्वयव्यतिरेकाभ्यामुपलभ्यते, प्रत्यभिज्ञानाच्च । तथा हि, ममात्र संशयज्ञानमुत्पन्नमिति 5 पश्चाद् विजानातीति सविषयत्वमस्य । विपर्ययवैधर्म्यम
विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति । __ अथ विपर्ययस्य कारणस्वरूपविषयविभागनिरूपणार्थं न परं संशयो * विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति * इत्येवमादि प्रकरणम् । यद्वा, 10 संशयस्य प्रत्यक्षानुमानविषयत्वाभ्युपगमाद् विपर्ययस्य विषयाभावादसम्भवो भाभूदित्याह 'विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति' इति । न च विषयाभेदादेकत्वम्, स्वरूपभेदस्य कारणभेदस्य च सम्भवात् । आगमिकेऽपि विषये विसंवादोपलब्धेविपर्ययदर्शनाद् व्याहतमवधारणं प्रत्यक्षानुमानविषय एव विपर्यय इति ? न, निविषयत्वप्रतिषेधपरत्वात् ।
यच्चेदम् असत्यपि प्रत्यक्षे प्रत्यक्षाभिमान इति वाक्यं तदन्यथा व्याख्येयमिति केचित् ।
अन्ये तु पराभ्युपगतस्य कल्पनाज्ञानस्य निरासार्थं 'विपर्ययोऽपि प्रत्यक्षानुमान विषय एव' । न तु सर्वः सविषयः क्वचिदविषयस्यापि सम्भवात् । यत्र हि विषयोऽन्वयव्यतिरेकाभ्यामुपलभ्यतेऽसौ सविषयोऽन्यस्तु निविषयो 20 न तु सर्व इति ।
अन्ये तु प्रत्यक्षानुमानविषयो भवत्येव विपर्यय इत्यभवनप्रतिषेधो विवक्षितो नित्यविपर्ययव्यवच्छेदार्थमिति ब्रुवते । तदयुक्त व्याख्यानम्, तस्यैवासिद्धेः । न च नित्यस्य प्रत्यक्षानुमानविषयत्वं व्यापारादृते सम्भाव्यत इति कथमस्यात्र अभवनप्रतिषेध इत्यलम् ।
25 प्रत्यक्षविषये तावत् प्रसिद्धानेकविशेषयोः पित्तकफानिलोपहतेन्द्रियस्यायथार्थालोचनाद् असन्निहितविषयज्ञानजसंस्कारापेक्षादात्मनसोः
15
For Private And Personal Use Only