________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवैधयंप्रकरणम
२१३
द्यर्थानुमानं स्यात्, अन्येनाविनाभावग्रहणेऽन्यस्यानुमितौ अतिप्रसङ्गात् । तस्मादतीतविषयत्वं व्याख्येयमुपचारेण । यत्र हि विषयेऽनुभवोऽतीतस्तत्र स्मृतिरुत्पद्यत इति ।
अन्ये तु अतीतो व्यवहितो विषयो यस्यानुभवस्यासौ अतीतविषयः, स विषयो यस्याः सा अतीतविषयेति प्राप्ते सति एकस्य विषयस्य लोपो 5 द्रष्टव्य इत्यतीतानुभवविषयत्वं लभ्यत इति मन्यन्ते ।
अथ अर्थजत्वमेव स्मृतेः कस्मान्नेष्यते ? अर्थविनाशेऽप्युत्पादात् । न च यद्देशकालालिङ्गितेऽनुभवज्ञानमुत्पन्नं तदालम्बनमेव न्याय्यम्, स्मृतिकाले तस्याविद्यमानतया विषयत्वाभावात् । बाह्येन्द्रियाणाञ्च स्मृतिजन्मनि प्रत्येक व्यभिचारादन्तःकरणस्य व्यापारो निश्चीयते । न च तस्य स्वात- 10 त्र्येण बहिर्विषये व्यापारः सम्भवतीति अनर्थजत्वमेव न्याय्यम् । अवश्यञ्च अर्थजत्वे सति अव्यभिचारित्वादिधर्मोपेतत्वात् प्रमारूपतायां स्मृतेः प्रमाणादुत्पत्तिर्वाच्या। अनुमानादेश्च व्यापारानुपलब्धेरन्तःकरणस्य स्वातन्त्र्येण तदुत्पत्तौ प्रामाण्ये सति स्मृतेरपरोक्षत्वं स्यात्, न चैतदस्ति, तस्मान्निविषयत्वमेव । आर्षज्ञानवैधर्म्यम्
आम्नायविधातणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु च आत्ममनसोः संयोगाद् धर्मविशेषाच्च यत् प्रातिभ यथात्मनिवेदनं ज्ञानमुत्पद्यते तद् आर्षमित्याचक्षते । तत्तु प्रस्तारेण देवर्षीणाम, कदाचिदेव लौकिकानाम, यथा कन्यका 20 ब्रवीति श्वो मे भ्राता आगन्तेति हृदयं में कथयतीति।।
अथ आर्षज्ञानस्य कारणविषयप्रमाणनिरूपणार्थम् * आम्नायविधातणाम् * इत्यादि प्रकरणम् । आम्नायो वेदः श्रुतिस्मृतिलक्षणः, तस्य विधातारः कर्तारः, तेषामृषीणामुत्पद्यते * यत् प्रातिभं ज्ञानम् * इति प्रतिभया संस्कारविशेषेण नित्तितम् । * यथात्मनिवेदनम् * यथा तस्य पदार्थ- 25 स्यात्मा स्वरूपं तन्निवेदनम् तदालम्बनमुत्पद्यते * तद् आर्षमित्याचक्षते * ।
15
For Private And Personal Use Only