SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्यां समवायिकारणत्वमन्यस्यासमवायिकारणस्यानुपलब्धेस्तुन्तुतुरीसंयोगानामसम - वायिकारणत्वम् । प्रत्यासत्तिस्तु पूर्ववद् बाच्येति । ननु चायुक्तमेतत्, तन्तूनां पटोत्पत्तावकारणत्वात् । कारणाकारणसंयोगपूर्वकश्च कार्याकार्यगतः संयोगः संयोगज इति तन्तोस्तन्त्वन्तरेणाभिसम्बन्धे सति द्वितन्तकमुत्पद्यते । पुनस्तन्त्वन्तरेणाभिसम्बन्धेऽन्यत् कार्यम् इत्यनेककार्यव्यवधानेन पटोत्पत्तेः कथं तन्तूनां पटोत्पत्तौ कारणन्वम् ? न, आरब्धकार्यस्यैव सहकार्यन्तरप्राप्तावारम्भकत्वे सति आरभ्यारम्भकवादः स्यात्, तत्र च मूर्तानां समानासमानदेशत्वम् । तथा हि, तन्तुभ्यामारब्धं तन्त्वोर्वर्त्तते । पुनरन्यसहिताभ्यामारब्धं तयोस्तत्र चेत्येवमुत्तरोत्त10 रेष्वप्यूह्यम्। अथान्यसहिताभ्यामारब्धमेकस्मिन्नेव वर्त्तत इत्येकद्रव्यवृत्तित्वं स्यात्, 'इह तन्तुषु पटः' इति प्रत्ययाभावश्च । तद्विनाशे चावान्तरकार्यानपलम्भः, शेषञ्च आरभ्यारम्भकवादे दूषणं पृथिव्यधिकारे ज्ञेयम् । तस्माद् व्योमादि सम्बन्धादवयवक्रियाद्वारेणावान्तरकार्यविनाशे तन्त्वन्तराभिसम्बन्धकालमव15 स्थितसंयोगास्तन्तवः पुनः कार्यान्तरमारभन्त इत्येष न्यायस्तावद् यावदन्त्यतन्तुसंयोगात् पटोत्पत्तिरिति । न चावान्तरकार्योत्पत्तिवैयर्थ्यम्, तदन्तरेणाभिप्रेतकार्यानुत्पत्तेः । यथा हि, विशिष्ट स्थानप्राप्ति वान्तरस्थानप्राप्ति विना सम्पद्यत इत्यकार णत्वेऽपि तत्सद्भावः, तद्वदवान्तरकार्य विनाभिप्रेतकार्य न सम्पद्यत इति, 20 तस्मात् तत्सद्भावोऽभ्युपगन्तव्यः । कारणत्वन्तु निषिध्यते तदपायेऽप्युत्पत्तेरित्यलम् । ___ * एकस्माच्च द्वयोरुत्पत्तिः। कथम् ? यदा पार्थिवाप्ययोरण्वोः संयोगे सत्यन्येन पार्थिवेन पार्थिवस्य अन्येनाप्येन चाप्यस्य युगपत् संयोगौ भवतस्तदा ताभ्यां संयोगाभ्यां पाथिवाप्ये व्यणुके युगपदारभ्येते। 25 ततो यस्मिन् काले व्यणकयोः कारणगुणपूर्वक्रमेण रूपाद्युत्पत्तिस्त स्मिन्नेव काले इतरेतरकारणाकारणगतात् संयोगादितरेतरकार्याकार्यगतौ For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy