________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
गुणवैधर्म्यप्रकरणम् असमवायिकारणञ्च विना वस्तुभूतस्य कार्यस्योत्पत्ति!पलब्धेति तन्तुवीरणसंयोग एव समानजातीयत्वे सति प्रत्यासन्नत्वादसमवायिकारणमिति । प्रत्यासत्तिस्तु कार्यकार्थसमवायः कारणैकार्थसमवायश्चेत्युभयरूपा न सम्भवत्येवेति, कार्यैकार्थसमवायस्यैव ग्रहणं कारणेनाव्यवधानादिति केचित् । महती तु यत्र कारणवृत्तीनामेव कार्ये गुणारम्भकत्वं तत्रैव ग्राह्येति । ।
न चैकस्यारम्भकत्वे 'गुणाश्च गुणान्तरमारभन्ते' (वैः सू० ...) इति सूत्रविरोधः । कारणवृत्तीनां समानजात्यारम्भकत्वमेव नियमात् । तथाहि, ये कारणवृत्तयः समानजातीयमेवारभन्ते तेषामनेकत्वसंख्यायुक्तानामेवारम्भकत्वमिति नियमः । तदेवं द्वितन्तुकवीरणयोः समवायिकारणत्वम्, तन्तुवीरणसंयोगस्यासमवायिकारणत्वम् । शेषं निमित्तकारणमिति ।। ___ द्वितन्तुकवीरणसंयोगस्योत्पत्तिः द्वाभ्यां तन्त्वाकाशसंयोगाभ्या [मेको द्वितन्तुकाकाशसंयोगः इति । तन्तोराकाशसम्बद्धस्य तन्त्वन्तरेणाभिसम्बन्ध सति द्वितन्तुकमुत्पद्यते । तन्तुक्रिया च तन्त्वन्तरेणेव चाकाशदेशेनापि संयोगं करोति, प्रतिबन्धकाभावात् । उत्पन्ने तु द्वितन्तुके रूपाद्य त्पत्तिसमकालमाकाशेनापि संयोगो भवत्येव । किमत्र प्रमाणमिति 15 चेत्, अनुमानम् ।
तथा हि, द्वितन्तुकं स्वकारणसंयोगिना संयुज्यते, तत्संयुक्तकारणकार्यत्वात्, वीरणसंयुक्तद्वितन्तुकवत् । आकाशं वा, स्वसंयुक्तकारणकार्येण संयुज्यते, तत्कारणसंयोगित्वात्, द्वितन्तुकसंयुक्तवीरणवत । सिद्धे च संयोगे तस्य कार्यत्वादुत्पत्तिकारणं चिन्त्यम् । तत्र द्वितन्तुकाकाशयोः समवायि- 20 कारणत्वमिति अन्येनासमवायिकारणेन भवितव्यम् । न च रूपाद्युत्पत्तिसमकालं द्वितन्तुके क्रिया सम्भवतीति तन्त्वाकाशसंयोगयोः समानजात्तीयत्वे सति प्रत्यासन्नत्वादसमवायिकारणत्वमिति । प्रत्यासत्तिस्तूभयरूपापि सम्भवतीति पूर्ववद् ग्राह्या।
*बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः तन्तूनां तुर्या 25 सह संयोगे सति अन्त्यतन्तुसंयोगानन्तरं पट उत्पद्यते । तस्य तत्पटाद्युत्पत्तिसमकालं तुर्या सह संयोगो गृह्यते इत्युत्पत्तिकारणं वाच्यम् । तत्र पटतुर्योः
For Private And Personal Use Only