________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैवयंप्रकरणम्
७१ संयोगौ युगपदुत्पद्यते। कि कारणम् ? कारणसंयोगिना हि अकारणेन कार्यमवश्यं संयुज्यत इति न्यायः । अतः पार्थिवव्यणुकं कारणसंयोगिना आप्येनाणुना सम्बद्धयते । आप्यमपि व्यणुकं कारणसंयोगिना पार्थिवेनेति। अथ द्वयणुकयोरितरेतरकारणाकारणसम्बद्धयोः कथं परस्परतः सम्बन्ध इति ? तयोरपि संयोगजाभ्यां संयोगाभ्यां सम्बन्ध इति ।
___ अथैकस्मात् संयोगाद् द्वयोः संयोगयोरुत्पत्तिः कथमित्याह * यदा पार्थिवाप्ययोरण्वोः संयोगे सत्यन्येन पार्थिवेन परमाणुना सह पार्थिवस्य, [अन्येन आप्येन चाप्यस्य युगपत् संयोगौ भवतस्तदा * ताभ्यां समानजातीयद्रव्यसम्बन्धात् * पार्थिवाप्ये द्व्यणुके युगपदारभ्येते । ततो द्व्यणुकोत्पादानन्तरं यस्मिन्नेव काले कारणगुणपूर्वप्रक्रमेण द्व्यणुकयो रूपाद्युत्पत्तिः 10 * तस्मिन्नेव काले इतरेतरकारणाकारणगतात् संयोगादितरेतरकार्याकार्यगतौ संयोगौ युगपदुत्पद्यते * । इतरः परमाणुः कारणं स्वकार्यस्य, इतरोऽकारणं तदपेक्षया । एवमन्योऽपीति । तद्गतात् तत्समवेतात् संयोगादितरेतरकार्याकार्यगतो, इतरत् पाधिवं व्यणुकं कार्यं स्वकारणस्य, इतरश्चाप्यपरमाणुरकार्यः, तथेतरदाप्यं व्यणुकं कार्यमितरश्त्र पार्थिवपरमाणुरकार्यः, 15 तद्गतौ संयोगौ युगपदुत्पद्यते। तत्र च व्यणुकपरमाण्वोः समवायिकारणत्वमिति अन्यदसमवायिकारणं चिन्त्यम् । न चात्र क्रिया सम्भवति, उभोनिष्क्रियत्वादिति परमाण्वोः संयोगः प्रत्यासन्नत्वे सति सामर्थ्यावधारणात् कारणमिति ।
अथ पार्थिवद्व्यणुकस्य आप्येनाणुना संयोगः, तथा आप्यस्य 20 पार्थिवेनेति किं कारणम्, किं प्रमाणमित्याह * कारणसंयोगिना हि अकारणेन कार्यमवश्यं संयुज्यत इति न्यायः * प्रमाणम् । तथा हि,पार्थिवव्यणुकं स्वकारणसंयोगिना संयुज्यते, तत्संयुक्तकारणकार्यत्वात्, वीरणसंयुक्तद्वितन्तुकवत् । आप्यो वा परमाणः स्वसंयुक्तकारणकार्येण संयुज्यते, तत्कारणसंयोगित्वात, द्वितन्तुकसंयुक्तवीरणवत्। एवमितरत्रापि वाच्यम् । यत एवमतः पार्थिव- 25 द्व्यणकं स्वकारणसंयोगिना आप्येनाणुना सम्बध्यते, आप्यमपि व्यणुकं पार्थिवेनेति।
For Private And Personal Use Only