________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
व्योमवत्या
10
पोह [विषय इति गृह्यताम् । यतः शब्दात् प्रत्येति भिन्नाक्षः प्रध्वस्तनयनः, न तु प्रत्यक्षं यथा भवति तथेक्षते । समानविषयत्वे वा अनन्धस्येवान्धस्यापि शब्दादपरोक्षैव प्रतिपत्ति: स्यात् । तथात्वे इन्द्रियाग्निसम्बन्धादिवद् दाहशब्दादपि दाहार्थप्रतिपत्तिः स्यादित्याह,
अन्यथैवाग्निसम्बन्धाद् दाहं दग्धोऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ।। तस्मान्नेन्द्रियेण समानविषयत्वं शब्दस्य। तथा पदादिशब्दस्य स्वलक्षणविषयत्वे तस्य निर्भागतया शुक्लादिशब्दानामपि पर्यायता भवेत् । अपोहविषयत्वे तु नायं दोषः, विभिन्नानां समारोपव्यवच्छेदपरत्वादिति ।
वास्तवार्थविषयत्वे च शब्दानां पुरुषेच्छावशेन अनियतार्थत्वं न स्यात् । व्यवहारस्तु शब्दान्मया प्रतिपन्नं शब्देन च प्रतिपादयामीति, प्रतिपाद्यप्रतिपादकयोस्तमिरिकद्वयद्विचन्द्रदर्शनवद् भविष्यतीति । यथैकस्तैमिरिकश्चन्द्रद्वयं प्रतिपद्य प्रतिपादयति, अपरश्च प्रतिपद्यते, तथा सर्वत्र व्यवहत्तणामयं शब्दो व्यवहार इति । अथ परीक्षकास्तहि शब्दार्धाध्यवसाये सति मिथ्यात्वं मन्यमानाः प्रवर्तन्ते ? लोकव्यवहारानुसारितया, 'लोकव्यवहारं प्रति सदृशौ बालपण्डितौ' इति न्यायात् । मिथ्याज्ञानस्य चार्थप्रतिपादकत्वं क्वचिदुपलब्धम् । यथा मणिप्रदीपप्रभयोमणिबुद्ध्याभिधावतोमिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।
तदेतदसत्, शब्दादर्थाध्यवसाये सति प्रवर्तमानस्य अर्थाविसंवादेन 29 अक्षजज्ञानवद् अभ्रान्तत्वेन प्रामाण्योपपत्तेः । तथा हि इन्द्रियज्ञानस्यापि
सम्यक्त्वे न अर्थाविसंवादं विना प्रमाणान्तरमस्ति, स च शाब्दज्ञानेऽप्यस्तीति कथमप्रमाणम् ?
प्रतिबन्धोऽपि कार्यविशेषोपलब्धेरिन्द्रियाणामिव शब्दस्याप्यर्थेन वाच्यः । स च वाच्यवाचकालम्बनं सङ्केतज्ञानमेव, अन्यस्यासम्भवात् । तस्य च 25 विशेषाणामानन्त्येऽपि एकसामान्यस्योपग्रहादुपपत्तिरित्युक्तमेव । यदि च
शब्दानामप्रामाण्यम्, प्रमाणादिस्वरूपावबोधार्थ शास्त्रमनर्थकं स्यात्, प्रमाणादिस्वरूपस्य पारम्पर्येणापि तस्मादप्रतीतेः ।
For Private And Personal Use Only