________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवैधर्म्यप्रकरणम्
११५
मानमिति । साध्याविशिष्टञ्च, ग्राह्यलक्षणायोगस्यापि साध्यत्वात् । न च प्रमाणान्तरमस्तीति ।
एतेन शून्यवादोऽपि निरस्त एवेति न पृथगभिधीयते। तथाहि, सर्वार्थानामसत्त्वे विज्ञानस्यापि ग्राह्यग्राहकाकाररहितत्वाद् असत्वे च, सर्व शून्यमिति स्यात्, तच्च निरस्तमेव, प्रमाणाभावेन प्रमेयस्यासिद्धेः, बोध- 5 स्यार्थानाञ्च प्रमाणतो व्यवस्थापनादिति । तदेवं बोधव्यतिरेकेणार्थसद्भावसिद्धेरानन्त्यात् प्रत्यर्थनियतत्वाच्च बुद्धेरनेकत्वं युक्तमिति ।
अन्ये तु आत्मनः परिणामविशेषो बुद्धिस्तद्रूपतया चानित्या, आत्मरूपतया तु नित्येति मतम् । तस्य निरासार्थ सा चानेकप्रकारेति वाक्यं मन्यन्ते । तथाहि, बुद्धेरनेकत्वादात्मनोऽप्यनेकत्वम्, अभेदात्, आत्मैकत्वे 10 वा बुद्धेरेकत्वम् । न च भेदाभेदपक्ष: सम्भवति, अनेकान्तवादस्य पूर्वमेव प्रतिषेधात् । अतो बुद्धेर्गुणत्वादनेकत्वेऽप्यात्मनस्तथाभावो न भवतीति दिगवाससां मतं निषिद्धम् ।
तस्याः सत्यप्येनकविधत्वे समासतो वे विधे । विद्या चाविद्या चेति । तत्राविद्या चतुविधा संशयविपर्ययानध्यवसायस्वप्नलक्षणा ।
नन्वेवं तहि बुद्धरानन्त्यात् कथं तत्त्वज्ञानविषयत्वमित्याह * तस्याः सत्यप्यनेकविधत्वे समासतः * संक्षेपतो द्विविधेति परिज्ञानं कार्यमिति । केन रूपेण द्वैविध्यमित्याह * विद्या चा विद्या चेति ।
__ अन्ये तु वेदान्तमते विद्याविद्ययोः श्रवणात् बुद्धेरानन्त्यप्रतिपादनमागमविरुद्धं स्यादित्याशङ्कानिषेधार्थमाह 'तस्याः सत्यप्यनेकविधत्वे ॥ समासतः' संक्षेपतो द्वैविध्यमिष्यत एव 'विद्या चाविद्या चेति' ।
विद्या हि देशकालावस्थादिभेदेनाबाध्यमानोऽध्यवसायः । तद्विपरीतार्था चाविद्येति, न तु प्रमाणाप्रमाणत्वे विद्याविद्यत्वे, व्यभिचारात् । तथाहि, यदि प्रमीयतेऽनेनेति प्रमाणमिति विवक्षितम् संशयादेरप्यात्मान्तःकरणाधिगमे प्रमाणत्वमस्तीति व्यभिचारः । सर्वेषु च प्रत्यक्षादिज्ञानेषु कारणत्वानु- 25 पपत्तेरव्याप्तिश्च । फलविवक्षायान्तु न स्मृतेः प्रमाणफलत्वमिति विद्यात्वं न स्यात्।
For Private And Personal Use Only