SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्यां 5 सम्पादयन्ति तेनैव रूपेण सन्तो न रूपान्तरेणेति । कथम् ? अर्थानामव्यवस्थानात् । अथ स्वप्नावस्थायामर्थानामसत्त्वेऽपि प्रतिभासो विशिष्टार्थक्रिया च रेतसो विसर्गः सम्भवतीति । नन्वेवं तहि स्वप्नावस्थायामर्थानामसत्त्वं कथं ज्ञातमिति वाच्यम् । यदि जाग्रदवस्थायामनुपलम्भात् ? तर्हि येषामुपलम्भस्तेषां सत्त्वमायातम् । अन्यथा हि जाग्रदवस्थायामनुपलम्भेन स्वप्नावस्थायामसत्त्वं न स्यात् । अतः प्रतीयमानत्वात् स्वप्नावस्थायामिव जाग्रदवस्थायामप्यसत्त्वमिति न वाच्यम्, प्रतिभासमानत्वस्य साधनस्य सद्भावेऽपि असत्त्वस्य साध्यस्यानिश्चयात्, प्रतीयमानत्वञ्च बोधेऽस्ति न चासत्त्वमिति व्यभिचारः । तथा अर्थानामसत्त्वे प्रतीयमानत्वस्य साधनस्यापक्षधर्मत्वं स्यात् । उदाहरणे प्रतीयमानत्वेन नासत्त्वम्, अपि तु प्रमाणतोऽनुपलब्धेरित्यन्यथासिद्धञ्चेति । न च 'सर्वं विज्ञानम्' इति वादिनः स्वप्नावस्था जानदवस्था चेति विशेषः सम्भवति, उभयत्रापि स्वसंवेद्यस्य ज्ञानस्यावस्थानाभ्युपगमात् । व्रतवश्च (?) पूर्वं निरस्ता एव । तस्मादक्षादिजनितज्ञानसमवायो जाग्रदवस्था, तद्विपरीता तु स्वप्नावस्थेति युक्तम् । यच्चेदं बुद्ध्या विवेचनाद् भावानामसत्त्वम् इत्युक्तम्, तदसत्, स्वबुद्धिप्रतिभासमानवपुषामसत्त्वे बोधस्याप्यसत्त्वप्रसङ्गात् । तथाहि, रूपादयः परस्परस्वरूपपरिहारेण व्यवस्थिताः स्वबुद्धिविषयाः, पटादयोऽप्येवम् । अतो यद्यपि पटस्तन्त्वादिबुद्धौ न प्रतिभासते तथापि स्वबुद्धिविषयत्वात् परमार्थ सन्नेव । तदेवं पटादयः परस्परव्यावृत्तबुद्धिविषया विशिष्टार्थक्रियाकारिणश्चेति 2) परमार्थसन्त एव । न च प्रमाणं विना प्रमेयसिद्धिरिति विज्ञानव्यतिरेकिणामसत्त्वे प्रमाणमभिधेयम् । प्रमाणं विना च पदार्थानामसत्त्वसिद्धौ सत्त्वमपि स्यात्, प्रमाणाभावस्योभयत्राविशेषात् । अथ अर्थानामसत्त्वसिद्धौ ग्राह्यलक्षणायोगः प्रमाणम् ? न, तस्यापि भावधर्मत्वे विरुद्धत्वम्, अभावधर्मत्वे चाश्रयासिद्धत्वम्, 25 उभयधर्मत्वे तु व्यभिचारादसाधनत्वमिति, व्यधिकरणत्वाच्च । तथाहि, ग्राह्यलक्षणस्यायोगो न ग्राह्मधर्म इति, कथं तस्यासत्त्वं साधयेत् ? स्वरूपासिद्धश्च, ग्राह्यलक्षणस्य सद्भावात् । तथा च, महत्त्वादि ग्राह्यलक्षणं वक्ष्य 15 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy