________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३
वासनाक्रमेण विकल्पज्ञानं कार्यकारणभावग्राहकमिति वाच्यम्, अनुभवानुरूपत्वाद् वासनायाः कथं कार्यकारणभावाग्रहे तदध्यवसायिविकल्प इति । न चातद्रूपसमारोपितो विकल्पः, तस्य पारम्पर्येणाप्यर्थाविषयत्वे कार्यकारणभावाग्रहेऽनुमानाप्रवृत्तिरेव । तस्मादुभयोर्लिङ्गलिङ्गिनोरिदमस्य मिदमस्य व्यापकमित्यविनाभावग्रहे सति अनुमानं प्रवर्तत इति बोधादन्योऽर्थोऽभ्युपगन्तव्यः ।
व्याप्य
यच्चेदं नीलमहं वेद्मीति ज्ञानं तैमिरिकस्य द्विचन्द्रदर्शनवद् भ्रान्तमिति, असदेतत्, अबाध्यमानत्वात् । तथाहि, तैमिरिकस्य तिमिरविनाशादूर्ध्वमेकत्वज्ञाने सति द्विचन्द्रदर्शनं भ्रान्तमिति प्रतिभाति, अनुत्पन्नतिमि - रस्यान्यस्य नैवं नीलमित्यादि ज्ञाने विपरीतार्थग्राहकप्रमाणानुपपत्तेनं मिथ्यात्वमिति ।
ननूक्तं, किं केन बाध्यते ? ज्ञानं ज्ञानेनेति । तथाहि उदकज्ञानस्योदकं विषयः सर्वजनप्रतीतः, तत्परित्यागेन विषयान्तरे मरीच्यादावुत्पन्नं तद्ग्राहिणा ज्ञानेन बाध्यते मिथ्यात्वविशिष्टतया ज्ञाप्यते मिथ्येदं ममोदकज्ञानमुत्पन्नमिति, तज्जनितसंस्कारनिवृत्तिर्वा । तथाहि, मरीचिज्ञाने सति उदकज्ञानजनितसंस्कारनिवृत्तौ कालान्तरेऽपि उदकं मया दृष्टमिति स्मरणानुत्पत्तौ तद्देशाभिमुख्येन प्रवृत्त्यभाव इति । बाधकानभ्युपगमे च ज्ञानस्य सत्येतर - विवेकानुपपत्तेर्वादिप्रतिवादिनोर्जयपराजयव्यवस्था न स्यादित्युक्तम् ।
For Private And Personal Use Only
5
10
15
यत्तु 'मन्त्राद्युपप्लुताक्षाणाम्' इत्यादि वाक्यम्, तन्न परिहारार्हम्, स्वत एव प्रतिभासस्यान्यथात्वाभ्युपगमात् । तथाहि, मृच्छकलादयोऽन्यथा 20 प्रतिभासन्ते न स्वरूपेणोपप्लुतचक्षुषाम्, न सर्वेषामितीष्यत एवेदं मिथ्याज्ञानम्, बाधकोपपत्तेः । इष्टञ्च बाधकं ' तथैव दर्शनं तेषामनुपप्लुतचक्षुषाम्' इति । दूरे च मरुषु अल्पोऽपि महानुपलभ्यते सन्निकृष्ट चाल्प एवेति, अनेन तस्य बाधा । न च तेनैवास्य बाधा, प्रमातृमात्रस्य सर्वदेशेष्वतद्रूपतया प्रतिभासनात् । महत्त्वञ्च देशविशेष एव प्रतिभासते नान्यत्रेत्यसदेव । तदेव हि पदार्थानां स्वरूपं यदविसंवादि स्वस्थात्मनामर्थं क्रियासम्पादकञ्चेति । अतो मृच्छकलादयो येन रूपेणाविप्लुतचक्षुषां प्रतिभासन्तेऽर्थक्रियाञ्च
25
१५