________________
Shri Mahavir Jain Aradhana Kendra
5
११२
व्योमवत्यां
असावर्थः परिच्छिन्न इति व्यवहारः । तस्मान्निराकारत्वे विज्ञानस्य विषयविषयिभावो नियामक इति,
धियो नीलादिरूपत्वे बाह्योऽर्थः किनिबन्धनः । ( प्र वा २१४३३) इत्यपास्तमेव ।
यच्चेदं ग्राह्यग्राहकयोरेककालानुभवाभावेन दूषणम्, तदप्यपास्तम्, क्षणिकत्वानभ्युपगमात् । यो हि क्षणिकत्वं मन्यते तस्यायं दोषो ज्ञानकाले - ऽर्थस्यासद्भावोऽर्थंकाले ज्ञानस्येति तयोर्ग्राह्यग्राहकभावानुपपत्तिरिति । तथा अवयविनः पूर्वमेव व्यवस्थापनात्, न रूपादिसमुदायस्यापरमार्थत्वेन विज्ञानविषयत्वमिति । परमाणूनां सद्भावसिद्धेर्विज्ञानमात्रमेवेति अदूषणमनभ्यु10 पगमात् । अतो यदाह विज्ञानवादी एवं ग्राह्यग्राहकप्रविभागः कल्पनावशादिति', तदप्यपास्तमेव, बोधरूपव्यतिरेकेण बाह्यार्थस्य चक्षुरादिना प्रतिभासनात् प्रवृत्तिनिवृत्त्योश्च तद्विषयत्वादिति । तथाहि अर्थावरोधे सति अर्थं क्रियाथिनस्तदभिमुखाः प्रवर्तन्ते चेति दृष्टम् । न च भ्रान्त्यैव प्रवृत्तिः, अविसंवादोपलब्धेः ।
15
www.kobatirth.org
20
Acharya Shri Kailassagarsuri Gyanmandir
अथ प्रवृत्तिनिवृत्त्योरर्थक्रियायाश्च विज्ञानादव्यतिरेक एव, तन्न, वस्तुरूपतया प्रतिभासमानानां परस्परब्यावृत्तात्मनां ज्ञानाभेदे प्रमाणाभावात् । अर्थानभ्युपगमे च संवादानुत्पत्तिः । व्यापारव्याहाराभ्याञ्च सन्तानान्तरानुभवात् अर्थाकारे संवादः, तन्न तस्यासत्त्वात् । न चोत्पादनाविशेषेण संवादः । रूपज्ञानान्तरं रसज्ञानोत्पत्तौ विसंवादप्रसङ्गात् ।
1
अथ स्वसन्ततौ व्यापारव्याहारयोः स्वचित्तेहापूर्वकत्वेनोपलम्भात् सन्तानान्तरेऽपि तत्पूर्वकत्वानुमानमिति सन्तानान्तरसिद्धिः, न, प्रतीयमानयोर्व्यापारव्याहारयोः स्वचित्तादभेदे परचित्तपूर्वं कत्वाभावप्रसङ्गात् भेदे च बहिर्मुखावभासित्वेन प्रतीयमानत्वे कथं न बाह्यार्थसद्भावः ?
न च स्वसंविवादिनोऽविनाभावग्रहणाभावेऽनुमानप्रवृत्तिर्युक्ता । तथा 25 हि, व्यापारव्याहारः प्रतिभासिज्ञानात्मनश्चित्तान्तरपूर्वकतां गृह्णाति, आत्मन्येव पर्यवसानात् । एतत्कारणमपि चित्तं न तत्कारणतां गृह्णाति, नाप्युभाभ्यां
For Private And Personal Use Only