________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१११ अथाप्रकाशस्वरूपत्वादर्थानां कर्म?थं प्रकाशः ? तदविषयज्ञानोत्पाद एव । तथाहि, यस्मिन् विषये ज्ञानमुत्पन्नं स एवोपलब्धो नेतर इति विषयविषयिभावस्य नियामकत्वम्, अतो ज्ञानमर्थप्रकाशो न तु प्रकाशकमिति । किं गृहीतमर्थप्रकाशकमुत अगृहीतमित्यादिविकल्पः परमतास्पर्शी, चक्षुरादेः कारकजातस्यार्थप्रकाशकत्वाभ्युपगमात् । यत्र च ज्ञानं विशेषलिङ्गं वा तत्र । गृहीतस्यार्थपरिच्छेदे व्यापारोऽभ्युपगम्यत एव । तस्य च आत्मान्तःकरणसम्बन्धाद् ग्रहणम्, नावश्यम् तत्रापि ज्ञानान्तरमित्यनवस्थाभावः ।
न चोत्पन्ने ज्ञाने संवेदनाभावस्याविशेषात् सन्तानान्तरेऽप्यर्थप्रकाशः ? नियतात्मसम्बन्धस्य नियामकत्वात् । तथाहि, यस्मिन्नात्मनि समवेतं तज्ज्ञानमुपजातं स एव द्रष्टा नान्यः, तत्र विवक्षितज्ञानसमवायात् । यस्य तु 10 स्वसंवेद्यं ज्ञानं निराधारं तस्य सन्तानान्तरेऽर्थप्रकाश[स्त?:कस्मान्न भवतीति चिन्त्यम् । कार्यकारणभावस्तु क्षणिकत्वे सति पूर्वं प्रतिषिद्ध एव ।
यच्चेदं स्वसंवेद्यं विज्ञानम् इत्यर्थान्तरस्यासंवेदनमेव, तदसत्, विकल्पानुपपत्तेः । तथाहि, यदि स्वसंवेद्यमात्मान्तःकरणसंयोगादुपलभ्यं तदिष्टमेव । अथ तदेव ज्ञानं प्रमाणं प्रमेयं फलञ्चेति, तन्न, अन्यत्र त्रितयस्याभेदा- 15 दर्शनात् । भेदेत्वनेकं दण्डाद्युदाहरणम् । अतो न ज्ञाने करणकर्मणोरभेदः स्वसंवेद्यत्वम्, नापि क्रियाकर्मणोरिति । तस्मात् ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् घटादिवत् ।
यच्चेदं प्रकाशस्वरूपत्वाद् आत्मनैव प्रकाशते प्रदीपवत् इत्युक्तम्, तत्र यदि प्रकाशकत्वं बोधरूपत्वं विवक्षितं तदा साधनविकलमुदाहरणम्, 20 प्रदीपे बोधरूपत्वस्यासम्भवात् । अथ प्रकाशकत्वं भास्वररूपसम्बन्धित्वं तद् विज्ञाने नास्ति, अतो ज्ञानान्तरस्य तद्विषयस्योत्पाद एव ज्ञानस्य परिच्छेद इति ।
यच्चेदं किं प्रकाशस्वरूपास्तविपरीता वा पदार्था ज्ञानेन प्रकाशन्त इत्युक्तम्, तत्र यदि प्रकाशस्वरूपत्वं बोधरूपत्वं तन्नास्ति, अर्थानामबोध- 25 रूपत्वात् । तेषां कथं प्रकाशः ? तद्विषयज्ञानोत्पादात् । यद्विषयं ज्ञानमुत्पन्नम्
For Private And Personal Use Only