________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
गुरवस्तु विशिष्टव्यवहारकारणं विज्ञानं विद्या, विपरीतञ्चाविद्येति ब्रुवते । तत्र यदि प्रवृत्तिनिवृत्तिलक्षणो विशिष्टव्यवहारो विवक्षितस्तदा संशयादिज्ञानेष्वपि भावादतिव्याप्तिः । न च पक्षे सर्वत्रास्तीति अव्याप्तिश्च । अथ देशादिभेदेनापि सम्यक्तया मयोपलब्धमिति ज्ञानं विशिष्टव्यवहारः ? तज्जनकत्वमपि न सर्वेषु विद्याभेदेष्वस्तीत्यव्याप्तिः । तथा च सम्यङ् मयोपलब्धमिति व्यवहारो न सर्वेषु विद्याभेदेषु विद्यत इत्यव्यापकत्वमेव ।
तत्राप्यविद्या चतुर्विधेति क्रमातिक्रमेणाविद्यायाः स्वरूपनिरूपणमर्थप्रकाशस्य विवक्षितत्वात् तदुच्छेद्यत्वज्ञापनार्थमिति चान्ये, अविद्या हि विद्यया समुच्छिद्यत इति ।
अथ केन रूपेण चतुर्विधा ? * संशयविपर्ययानध्यवसायस्वप्नलक्षणा * स्वरूपेति । ननूहज्ञानमप्यस्ति, तस्यान्तर्भावो न विद्यायां नाप्यविद्यायाम्, उभयत्रापि चातुर्विध्याभिधानात् । न युक्तमेतत, संशयनिश्चयव्यतिरेकेणोहज्ञानस्यासंवेदनात् । अथास्ति संशयादूर्ध्वं बाह्यालिप्रदेशे सम्बन्धोपलब्धेः स्थानुपक्षप्रतिषेधे सति पुरुषणानेन भवितव्यमिति सम्भावनाप्रत्ययः ? स तु तस्मिस्तदिति रूपत्वान्निश्चय एव । तथा हि, किमयं स्थाणुः स्यात् पुरुषो वेत्युभयप्रसङ्गे सत्येकस्य प्रतिषेधात् तदन्यस्याप्रतिषिद्धस्थावस्थानं भवत्येव । .. अथ व्यधिकरणविशेषोपलम्भान्न युक्तो निश्चयः, तदसत्, संयोगि
विशेषस्याभ्युपगमात् । यथा हि, काकनिलयनादयो विशेषाः संयोगिनि स्थाणौ 20 निश्चयमुत्पादयन्ति, एवं बाह्यालीप्रदेशे पुरुषेऽपीति । तत्सम्बन्धस्तु समवेत
एव विशेष इति न व्यधिकरणत्वम् । अथ नायं स्थाणुः बाह्यालीप्रदेशसम्बन्धित्वात्, इति विषयात् साधनान्न निर्णयः, तन्न, व्यापारापेक्षया पुरुषविषयत्वस्यापि सम्भवात् । ज्ञानान्तरत्वे तु ऊहज्ञानस्याव्यभिचार्यर्थज्ञानत्वात्
प्रमाणरूपतायां प्रमाणान्तरमभिधेयम्, प्रमाणं विना तत्फलस्यानुपपत्तेः, 25 व्यभिचारि वा प्रमाणसामान्यलक्षणं स्यात् । अथ इन्द्रियार्थसन्निकर्षाद्येव
प्रमाणमूहोत्पत्तौ ? कथं तहि ज्ञानान्तरम्, प्रत्यक्षफलत्वादित्यलम् ।
For Private And Personal Use Only