SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् ११७ अन्ये तूहस्य सद्भावेऽपि समानतन्त्रप्रसिद्धतया लाभाद् इहानभिधानम् इति ब्रुवते । न च प्रत्यक्षादेरप्यनेनैव न्यायेन लाभः, स्वमताभावे समानतन्त्रतासिधैरभावात् । संशयवैधर्म्यम् संशयस्तावत प्रसिद्धानेकविशेषयोः सादृश्यमात्रदर्शनात, उभय- 5 विशेषानुस्मरणात्, अधर्माच्च किंस्विदित्युभयावलम्बी विमर्षः संशयः । अथ संशयस्येतरस्माद् भेद-विषयविभागनिरूपणार्थं * संशयस्तावत् * इत्यादिप्रकरणम् । संशयस्तावद् ब्याख्यायतेऽवसरप्राप्तत्वादिति । प्रसिद्धा अनेके विशेषा ययोस्तौ तथोक्तौ तयोरिति विषयनिरूपणम् । न तु प्रसिद्धौ च तावनेक- 10 विशेषौ चेति कर्मधारयपरिग्रहः, संशयस्य च धर्मिविषयत्वात् । अथ एकस्यैव धर्मिणस्तत्र सद्भावाद् उभयोः कथं विषयत्वसम्भवः ? पक्षोपन्यासाददोषः । तथाहि, यत्रानेके विशेषाः प्रसिद्धास्तत्रैव संशय इति नियम्यते, न त्वेकस्मिन्नेव काले तयोविषयत्वम्, एकस्य तत्रासम्भवात् । कालभेदेन तु उभयोविषयत्वम् । यद् यत्र सम्भाव्यते, संशयोत्पत्तौ स तस्य विषय इति । 15 ___कारणमिह * सादृश्यमात्रदर्शनात् * इति । सादृश्यमानं दृश्यतेऽस्मिनिति सादृश्यविशेषि[न?त] र्मिदर्शनं लभ्यत इति व्याख्येयम् । न तु सादृश्यमात्रस्य दर्शनमित्यभ्युपगमेन धर्मोपलम्भाद् मिणि संशयस्य व्यधिकरणत्वात् । अत्र ‘सादृश्यमात्रदर्शनात्' इति मात्राभिधानेनात्यन्तविशेषानुपलब्धि दर्शयति, सामान्यस्य विशेषसहितस्योपलम्भेऽपि संशयादर्शनादिति । 20 न च सामान्योपलम्भं विना विशेषानुपलब्धिः संशयजनिकेत्युभयाभिधानम् । तथापि नावाद्यारूढस्य वृक्षादिषूभयसद्भावेऽपि न संशय इति * उभयविशेषानुस्मरणात् * इति पदम् । विशेषानुस्मरणञ्च न पूर्वोक्तं विना संशयजनकं दृष्टमिति समुदितं कारणम् । तदेवं सामान्यदर्शनाद् विशेषादर्शनाद् उभयविशेषानुस्मरणाद् अधर्मादिभ्यश्चोत्पद्यमानत्वात् संशय इतरेभ्यो भिद्यत । इति कारणात्मकं लक्षणम् । तथा च सूत्रम् 'सामान्यप्रत्यक्षाद् विशेषाप्रत्य For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy