________________
Shri Mahavir Jain Aradhana Kendra
5
10
www.kobatirth.org
15
Acharya Shri Kailassagarsuri Gyanmandir
११८
व्योमवत्या
क्षाद् विशेषस्मृतेश्च संशय:' (वै०सू० २।२।१७ ) इति । सामान्यं प्रत्यक्षं यस्मिन् धर्मिण्यसौ तथोक्तस्तस्मादिति । प्रत्यक्षशब्चश्च दृढप्रमाणवचनः, अत्रानुमानिकस्यापि संशयस्याभ्युपगमात् । विशेषाप्रत्यक्षादिति विशेषानुपलब्धेस्तत्स्मृतेश्च संशय इति ।
ननु चायुक्तमेतत्, देवदत्तस्य स्वप्रियतमां परित्यज्य व्रजतो देशव्यव - धानात् त्रितयसद्भावेऽपि तत्र संशयानुपलब्धेः । तथाहि, स्त्रीत्वसामान्योपलम्भेऽप्यनेकादिविशेषोपलम्भात् तत्स्मरणाच्च किं मदीया अन्यदीया वेति संशयो न दृष्टः परपक्षप्रतिषेधकस्य देशकालविशेषस्य बाधकस्योपलब्धेः, एकस्मिन् देशे काले चान्या न सम्भवतीति । अतोऽस्य व्यवच्छेदार्थं बाधकसाधकप्रमाणाव्यवस्थातश्चेति पदं कार्यम् ? न । विशेषानुपलब्धिपदेनैव निरस्तत्वात् । तथाहि विशेषानुपलब्धिपदेन समस्तविशेषानुपलब्धिविवक्षिता । सा चात्र नास्ति, देशकालविशेषस्य निश्चितत्वात् । अतो विशेषानुपलब्धिपदेनैवास्य निरस्तत्वादिति व्यवच्छेद्याभावं मन्यमानो मुनिर्न विशेषान्तरमाहेति ।
तस्य स्वरूपमाह = कि स्विदित्युभयावलम्बी विमर्शः संशयः इति । संशीतिः संशयः, संशय्यतेऽनेनात्मा सुप्त इव भवतीति निरुक्तिर्लक्षणम् । विमर्शनं विमर्श:, किमिदमेव आहोस्विदेवं न भवतोति प्रत्ययः । स चोभयमालम्बते तच्छीलश्चेत्युभयावलम्बी विमर्शः संशय इति । न चोभयोर्विषयत्वं घटत इत्युभयोल्लेखीति व्याख्येयम् । अतो विमर्श इतरस्माद् भिद्यते, संशय 20 इति वा व्यवहर्तव्यो, विमर्शरूपत्वात् किं स्यादित्युभयालम्बित्वाद् वेति ।
For Private And Personal Use Only
*
* स च द्विविधः * इति विभागः । केन रूपेण ? *अन्तर्बहिश्च* । ननु पञ्चविधत्वात् संशयस्य द्वैविध्यमनुपपन्नम् ? न, अस्यैवावान्तरभेदेन तदुपपत्तेः । तथाहि समानधर्मोपपत्तेः, अनेकधर्मोपपत्तेः, विप्रतिपत्तेश्चेति बाह्यस्त्रिविधः संशयः । उपलब्ध्यनुपलब्ध्योश्च मनः परिच्छेद्यत्वादान्तरो 25 द्विविध इति । अभिप्रेतञ्चैतद् भाष्यकर्तुर्यत आह 'समानोऽनेकश्चधर्मोज्ञेयस्थः, उपलब्ध्यनुपलब्धी पुनर्ज्ञातृस्थे' इत्यविरोधः । सङ्ग्रहानभ्युपगमे च प्रत्यक्षाप्रत्यक्षविषयभेदेनापि संशयस्य भेदात् पञ्चत्वमसम्बद्धं स्यात् ।