________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम् अथानेनैव सङ्ग्रहादनभिधानम् ? तहिं द्वैविध्येनैव सङ्ग्रहान्न पञ्चत्वमभिधीयते, तस्य हि तद्भेदत्वादिति ।
अनेकश्च धर्मो साधारणत्वात् संशयहेतुर्न भवत्येव, विरुद्ध विशेषैः सहानुपलम्भेन तत्स्मरणाजनकत्वात् । नापि विरुद्धाव्यभिचारी संशयहेतुस्तस्यैवासम्भवादिति वक्ष्यामोऽनैकान्तिकावसरे ।
अन्तस्तावद् आदेशिकस्य सम्यङ मिश्या चोद्दिश्य पुनराविशतस्त्रिषुकालेषु संशयो भवति किन्नु सम्यड मिथ्या वेति ।
तत्र अन्तःसंशयस्य स्वरूपनिरूपणार्थम् * अन्तस्तावदादेशिकस्य * इत्यादि । यथा हि, आदेशिकेन विशिष्टं निमित्तमुपलभ्यादिष्टमेकदा 'वृष्टिर्भविष्यतीति' सम्यक् जातमन्यदा तु विपरीतम् । पुनस्तथैवादिशतस्त्रिषु कालेषु 10 असत्सु तस्मिन् ज्ञाने संशयो भवति किन्नु सम्यङ मिथ्या वेति । अथ ज्ञानस्य सामान्यदर्शनविशेषानुस्मरणकालेऽवस्थानाभावात् कथं संशयविषयत्वम् ? तथाहि, तस्मिन् ज्ञाने भविष्यवृष्टिविषयत्वं समानो धर्मस्तद्विशिष्टे ज्ञाने ज्ञानमुत्पद्यते, तस्य तु विनश्यत्ता, सम्यक्त्वासम्यक्त्वविशेषस्मरणस्योत्पद्यमानता, ततो विशेषस्मरणकाले ज्ञानमतीतं कथं विषयः ? तदुपलक्षितात्मनो 15 विषयत्वाददोषः । तथा च, किन्नु सम्यक् ज्ञानवानहं मिथ्याज्ञानवान् वेति संशयः।
अन्ये तु विद्यमानस्येवातीतस्यापि विषयत्वमस्तीति ब्रुवते ।
बहिदिविधः, प्रत्यक्षविषये चाप्रत्यक्षविषये च। तत्राप्रत्यक्षविषये तावत् साधारणलिङ्गदर्शनाभयविशेषानुस्मरणाद् अधर्माच्च संशयो 20 भवति । यथा अटव्यां विषाणमात्रदर्शनाद गौर्गवयो वेति ।
* बहिदिविधः * केन रूपेण ? * प्रत्यक्षविषये चाप्रत्यक्षविषये च * इति । * तत्राप्रत्यक्षविषये तावत् * अभिधीयते संशय: * साधारणलिङ्गदर्शनात् * इति । यल्लिङ्ग विरुद्धविशेषैः सहोपलब्धं तद्दर्शनाद् विशेषानुपलब्धेः, * उभयविशेषानुस्मरणादधर्मात् * दिक्कालादिभ्यश्च संशयो भवति । 25 * यथाटव्यां विषाणमात्रदर्शनात् तद्गतविशेषानुपलब्धस्तत्स्मरणात् संशयो भवति * गौर्गवयो वेति ।
For Private And Personal Use Only