SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० व्योमवत्यां गुणस्य विनश्यत्तेत्येकः कालः । * ततो द्रव्यापेक्षाबुद्धयोविनाशात् * तदाश्रितस्य *परत्वस्य विनाशः * इति । एकैकस्यान्यत्र गुणविनाशे सामर्थ्यावधारणादुभयोरत्र पूर्वकालभावित्वे सति कारणत्वं निश्चीयते । द्रव्यसंयोगविनाशादपि कथम् ? यदा परत्वाधारावयवे कर्मोत्पन्नम् 5 अवयवान्तराद् विभागं करोति तस्मिन्नेव काले पिण्डकर्मापेक्षाबद्धयो युगपदुत्पत्तिः। ततो यस्मिन्नेव काले परत्वस्योत्पत्तिस्तस्मिन्नेव काले विभागाद् द्रव्यारम्भकसंयोगविनाशः, पिण्डकर्मणा दिपिण्डस्य च विभागः क्रियत इत्येकः कालः। ततो यस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते तस्मिन्नेव काले द्रव्यारम्भकसंयोगविनाशात् पिण्डविनाशः, पिण्डविनाशाच्च पिण्डसंयोगविनाशः। ततो गुणबुद्धिसमकालं पिण्डदिपिण्डसंयोगविनाशात् परत्वस्य नाशः।। संयोगद्रव्यविनाशादपि कथं परत्वापरत्वयोविनाश इत्याह * यदा * द्रव्यावयवे [? परत्वाधारावयवे] कर्मोत्पन्नमवयवान्तराद् विभागं करोति संयोगस्य विनश्यत्ता, तस्मिन्नेव काले पिण्डेऽपि समवायिकारणे कर्म 15 चापेक्षाबुद्धिश्च स्वकारणात् तयोर्युगपदुत्पत्तिः, दिपिण्डविभागपरत्वा परत्वयोरुत्पद्यमानतेत्येकः कालः । ततो यस्मिन्नेव काले परत्वमुत्पद्यते तत्सामान्यज्ञानस्योत्पद्यमानता, तस्मिन्नेव कालेऽवयवविभागाद् द्रव्यारम्भकसंयोगविनाशः, द्रव्यस्य विनश्यत्ता, पिण्डकर्मणा च दिपिण्डविभागः क्रियते, संयोगस्य विनश्यत्तेत्येकः कालः । ततो यस्मिन्नेव काले 20 सामान्यबुद्धिरुत्पद्यते गुणबुद्धेरुत्पद्यमानता, अपेक्षाबुद्धविनश्यत्ता, तत्समकालं संयोगविनाशात् पिण्डविनाशः, विभागाच्च दिपिण्डसंयोगविनाशः, गुणस्य विनश्यत्ता । ततो गुणबुद्धिसमकालं पिण्डसंयोगयोविनाशात् परत्वस्य विनाशः, सामान्यबुद्धश्चापेक्षाबुद्धिविनाश इति । अतएव समकालत्वादपेक्षा बुद्धिविनाशो न कारणम्, पिण्डसंयोगविनाशयोश्चान्यत्र सामर्थ्यावधारणे 25 सति पूर्वकालभावित्वात् कारणत्वमिति । संयोगापेक्षाबुद्ध्योर्युगपद् विनाशादपि कथम् ? यदा परस्वमुत्पद्यते तदा परत्वाधारे कर्म, ततो यस्मिन्नेव काले परत्वसामान्यबुद्धिरुत्पद्यते For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy