SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणवेधम्यप्रकरणम् ततो विभागाद् यस्मिन्नेव काले संयोगविनाशस्तस्मिन्नेव काले परत्वमुत्पद्यते । ततः संयोगविनाशाद् द्रव्यविनाशस्तविनाशाच्च तदाभितस्य गुणस्य विनाशः। द्रव्यविनाशादपि कथं विनाश इत्याह * परत्वाधारावयवे कर्मोत्पन्नम् * यस्मिन् कालेऽवयवान्तरविभागं द्रव्यारम्भकसयो [ गिन ? गविरोधिन मारभते संयोगस्य विनश्यत्ता । तस्मिन्नेव काले स्वकारणादपेक्षाबुद्धिरुत्पद्यते, परत्वस्योत्पद्यमानता। विभागाद् यस्मिन् काले संयोगस्य द्रव्यारम्भकस्य विनाशो द्रव्यस्य विनश्यत्ता तस्मिन्नेव काले परत्वमुत्पद्यते । तत्सामान्यज्ञानस्योत्पद्यमानता, ततः संयोगविनाशाद् द्रव्यविनाशः, सामान्यज्ञानस्योत्पादोऽपेक्षाबुद्धविनश्यत्ता, परत्वगुणस्यापि विनश्यत्ता । ततो द्रव्यविनाशात् 10 तदाश्रितस्य गुणस्य विनाशः । सामान्यज्ञानादपेक्षावुद्धश्च विनाश इति पूर्वकालत्वादाश्रयविनाश एव गुणविनाशे कारणमिति । द्रव्यापेक्षाबुद्ध्योर्युगपद् विनाशादपि कथम् ? यदा परत्वाधारावयवे कर्मोत्पद्यते तदेवापेक्षाबुद्धिरुत्पद्यते, कर्मणा चावयवान्तराद विभागः क्रियते, परत्वस्योत्पत्तिरित्येकः कालः। ततो यस्मिल्लेव कालेऽवयवविभागाद् द्रव्यारम्भकसंयोगविनाशस्तस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते । तदनन्तरं संयोगविनाशाद् द्रव्यविनाशः, सामान्यबुद्धश्चापेक्षाबुद्धिविनाश इत्येकः कालः । ततो द्रव्यापेक्षाबुद्धयोविनाशात् परत्वस्य विनाशः। द्रव्यापेक्षाबुद्धयोयुगपद् विनाशादपि कथं परत्वापरत्वयोविनाशस्तदाह 0 ॐ यदा * परत्वाधारस्योत्पत्स्यमानपरत्वस्यावयवे कर्मोत्पद्यते विभागस्योत्पद्यमानता तदेवापेक्षाबुद्धिरुत्पद्यते, परत्वस्योत्पद्यमानता, कर्मणा चावयवान्तराद् द्रव्यारम्भकसंयोगविरोधिविभागः, संयोगस्य विनश्यत्ता, परत्वस्योत्पत्तिस्तत्सामान्यज्ञानस्योत्पद्यमानतेत्येकः कालः । * ततो यस्मिन्नेव काले * विभागाद् द्रव्यारम्भकसंयोगविनाशो द्रव्यस्य विनश्यत्ता, 25 * तस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते * । अपेक्षाबुद्धविनश्यत्ता । * तदनन्तरं संयोगविनाशाद् द्रव्यविनाशः, सामान्यबुद्धश्चापेक्षाबुद्धिविनाशः * For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy