SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्यां १५२ त्वात् । अयं सपक्षाभाव एव सपक्षस्तस्मिन्ननुवृत्तावन्वयोपपत्तिः, व्यावृत्तौ तु । असाधारणत्वमेव । तदुक्तम् , निवृत्तिर्यदि तस्मिन्न हेतोवृत्तिः किमिष्यते । सापि न प्रतिषेधोऽयं निवृत्तिः किं निषिध्यते ॥(प्र.वा.४।२२४) इति । अस्यार्थः । तस्मिन् सपक्षाभावे हेतोर्यदि निवृत्ति स्ति, वृत्तिः स्यात्, तद्व्यावृत्तिरूपत्वात् । वृत्तिप्रतिषेधे तु निवृत्तिरेव स्यादिति । न च विधिप्रतिषेधव्यतिरेकेणापरः शाब्दो व्यवहारः सम्भवतीति मूकताप्रसङ्गः । तदेतदसत्, पक्षाभावस्यापि साध्यानधिकरणत्वेन विपक्षत्वात्, तस्माच्च निवृत्तिरेव अप्राणादिमत्त्वादिति हेतोः ।। न च कल्पनासमारोपितत्वात् पक्षादिव्यवस्थायाः कल्पिते सपक्षे हेतोवृत्तावन्वयव्यतिरेकित्वम्, व्यावृत्तौ त्वसाधारणत्वमिति दूषणम्, वास्तवत्वात् पक्षादिव्यवस्थायाः । कल्पितत्वे तु कथं हेतुतदाभासव्यवस्था, कल्पनायाः सर्वत्राविशेषात् । अथ घटादौ कि सात्मकत्वव्यावृत्त्या प्राणदिमत्त्वव्या वृत्तिरुत वस्तुस्वाभाव्यादिति सन्दिग्धो व्यतिरेकः । न च घटादौ सात्मक15 त्वस्य सदसत्त्वे प्रमाणमस्ति । नैतदेवम्, प्राणादिमत्त्वस्य कार्यविशेषस्याभा वेन तत्कारणविशेषस्य सात्मकत्वस्य तत्र व्यावृत्तिप्रसिद्धेः । तथा हि, प्राणादिमति शरीरे प्राणाद्युत्पादनसमर्थात्मसम्बन्धविशेषः सात्मकत्वं साधयति, तदभावस्तु प्राणादिकार्याभावेनैव ज्ञायते घटादाविति । नन्वेवं कार्यस्य कारणपूर्वकत्वेनोपल [ म्भ ? ब्ध ] त्वादन्वयोपपत्तेः 20 कथं केवलव्यतिरेकित्वम् ? न, कार्यविशेषेण कारणविशेषे साध्येऽन्वयाभावात् । जीवच्छरीरे हि प्राणाधुत्पादनसमर्थात्मसम्बन्धविशेषः साध्यस्तेन चान्वयाभाव एव । यस्य तु सर्वं निरात्मकमिति पक्षः स कथं घटादौ (किं ?) सात्मकत्वं व्यावृत्तं न वेति सन्देहं ब्रूयात् ? नापि बुद्ध्यादिनिवृत्तावेव प्राणादिनिवृत्तिर्घटादाविति वाच्यम्, आदि25 शब्देन सर्वेषामवरोधात् । तदुत्पादनसमर्थश्च आत्मसम्बन्धविशेषः साध्यस्तद भावे तु कथं बुद्ध्यादीनामुत्पत्तिः, जीवच्छरीरे कारणाभावेन कार्यस्याभाव For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy