________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३
प्रसङ्गात् । क्षणिकत्वे च सति कार्यकारणभावः पूर्वं प्रतिषिद्ध इति न बोधाद् बुद्ध्यादीनामुत्पत्तिः । तदेवं प्राणादिकार्यविशेषः कारणविशेषे साध्ये व्यतिकाव्यभिचारेणैव गमक इति ।
ननु शशविषाणादिवच्छरीरं प्राणादिमत्त्वेन साध्यं स्यादिति दूषणम्, तदभावायत्तव्यावृत्तेः प्रतिपत्तुमशक्यत्वादिति । प्राणाद्युत्पत्तौ च कारणत्वाभ्युपगमेन कार्यविशेषव्यावृत्त्या यदि कारणविशेषव्यावृत्तिरिष्यते संज्ञाभेदमात्रं स्यात्, विपर्यये तु स न स्यात् तदभावायत्त प्रतिपत्त्यभाव इत्यलम् ।
नन्वेवं कथमनयोर्लक्षणवाक्येनावरोध: ? वाक्यभेदेन । तथाहि, 'यदनुमेयेन सम्बद्धं विपक्षाभावे च तदन्वित एव प्रसिद्धमिति केवलान्वयी, पक्षधर्मत्वे सति सपक्षाभावात् तदभाव एव नास्त्येवेति केवलव्यतिरेकी । सामान्यलक्षणन्तु 10 सति साधने साध्यस्यावश्यम्भावनियमः, साध्यसाधनत्वमनुमापकत्वपदेनोक्तमिति । लिङ्गभासनिरूपणार्थमाह
• विपरीतमतो यत् स्यादेकेन द्वितयेन वा । विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥ इति ।
अत इत्युक्तरूपाल्लिङ्गाद् यद् विपरीतमेकेन धर्मेण धर्मद्वितयेन, 'वा' शब्दात् त्रिभिश्चेति, तदलिङ्गं लिङ्गप्रतिरूपकमिति काश्यपोऽब्रवीत् । विरुद्धासिद्धसन्दिग्धमिति विशेषसंज्ञानिर्देशः । तत्र धर्मद्वयसद्भावेऽपि सन्दिग्धो न विपक्षाद् व्यावृत्त इत्येकेन धर्मण विपरीतः । विरुद्धस्तु पक्षधर्मत्वसद्भावेऽपि न सपक्षे वर्तते नापि विपक्षाद् व्यावृत्त इति धर्मद्वयेन विपरीतः । असिद्धस्त्वेकेन द्वाभ्यां त्रिभिश्च विपरीतो भवतीति ।
5
For Private And Personal Use Only
15
20
तत्र नित्यः शब्दः सामान्यवत्त्वे सति चाक्षुषत्वादित्येकेन विपरीतः । तथा च, अस्य सपक्षे घटादौ सद्भावेऽपि विपक्षाच्च सामान्यादेर्व्यावृत्तावपि न पक्षधर्मत्वमस्तीति । तथा नित्यः शब्दोऽप्रमेयत्वादिति द्वितयेन विपरीतः, अप्रमेयत्वस्य हि विपक्षादेव व्यावृत्तिर्न सपक्षे सद्भावो नापि पक्ष इति । त्रिभिश्च विपरीतो यथा अनित्यः शब्दः अकार्यत्वादित्यस्य हि न शब्दे पक्षे 25 सद्भावो न सपक्षे घटादौ नापि विपक्षाद् व्यावृत्तिरिति ।
२०