________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१५१ तदेवमुभयोः संशयान्नान्यतरस्यापि असिद्धतोद्भावने सामर्थ्यमिति । यदि चान्यतरोऽपि नित्यानित्यविशेषोपलम्भं प्रमाणेन ब्रूयात् तदा असिद्धत्वमेव न प्रकरणसमत्वमिति । न च सन्दिग्धावस्थायां विरुद्धाव्यभिचारिणः प्रयोग इति तस्माद् व्यतिरेकः ? नापि विरुद्धाव्यभिचारी सम्भवतीति वक्ष्यामः ।
तदेवमनयोर्व्यवच्छेदार्थम् अबाधितविषयत्वमसत्प्रतिपक्षितत्वञ्च रूपान्त- 5 रमभ्युपगन्तव्यम् । अन्यथा हि प्रत्य ? व्य] वयवं वाक्यं स्यान्न पञ्चावयवम्, अवयवद्वयस्यैतद्व्यवच्छेदार्थपरत्वादिति ।
__ नन्वेवमपि न्यूनं लक्षणवाक्यम्, केवलान्वयिनः केवलव्यतिरेकिणश्चाव्यापनादिति । अस्ति च तयोः साध्यसाधनत्वम् । तथा च यत्र सामान्यमेव साध्यं तत्र सामान्यमेव हेतुः। यथा अभिधेयो विशेषः प्रमेयत्वात् सामान्य- 10 वदिति । विशेषाणामभिधेयत्वे साध्येऽनभिधेयस्य वस्तुनोऽसम्भवाद् विपक्षाभावः । प्रमाणेन हि विपक्षमुपलभ्य तस्माद् व्यतिरेक वचनेनोपपादयतस्तत्राभिधेयत्वप्रमेयत्वयोः प्राप्तेस्तस्य सपक्षत्वमेव स्यादिति न विपक्षाद् व्यतिरेकोऽस्तीत्यतोऽन्वयाव्यभिचारेणैव गमकत्वम् ।।
तथा जीवच्छरीरं निरात्मकं न भवति, अप्राणादिमत्त्वप्रसङ्गाद्, यद् 15 यद् निरात्मकं तत्तदप्राणादिमद् यथा घटादि, न च तथा जीवच्छरीरम्, तस्मान्निरात्मकं न भवतीति, सर्वस्य निरात्मकत्वाभ्युपगमाज्जीवच्छरीरस्य नैरात्म्यप्रतिषेधे साध्ये न सपक्षोऽस्ति । प्राणादिमत्त्वञ्च विपक्षादेवात्यन्तव्यावृत्तम्, अतो व्यतिरेकाव्यभिचारेणैव गमकत्वम् । न चैवमसाधारणम्, तस्य विपक्षादिवत् सपक्षादपि व्यावृत्तेर्व्यभिचारेणागमकत्वात् । अथ नैरात्म्यप्रति- 20 षेधेनात्र सात्मकत्वं विवक्षितम्, न चात्मा प्रसिद्ध इत्यप्रसिद्धविशेषण: पक्षः, तन्नैरात्म्येऽपि समानम्, अप्रसिद्धत्वादात्मनः कथं तत्प्रतिषेधः ? न च कल्पनासमारोपितस्य प्रतिषेधः, वास्तवत्वेन प्रतिपादनात् । प्रत्यक्षादिप्रमाणेश्च आत्मा प्रतिपादकस्य प्रसिद्धस्तदपेक्षया न अप्रसिद्धविशेषणता पक्षदोषः । प्रतिपाद्यापेक्षया तु नैतद् दूषणम्, अप्रतिपन्नतत्त्वस्य प्रतिपाद्यत्वात् । सपक्षे 25 तु अप्रसिद्धत्वं न व्यतिरेकिणो दूषणम्, तस्य व्यतिरेकाव्यभिचारेणैव गमक
For Private And Personal Use Only