________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
व्योमवत्यां
10
श्रयनिरूपणम, पूर्वपदापेक्षं वा लक्षणम् । तथा हि घ्राणग्राह्यत्वं गन्धत्वादेरप्यस्तीति पृथिवीवृत्ति रिति विशेषणम् । पृथिवीवृत्तित्वमन्यस्याप्यस्तीति घ्राणग्राह्यपदम् । ध्राणग्राह्यत्वे सति पृथिवीवृत्तित्वं लक्षणमिति ।
___ *घ्राणसहकारी* इति स्वगतगन्धोत्कर्षाद् बाह्यगन्धप्रकाशकमित्यर्थक्रियानिरूपणम् । पुनरपि *सुरभिरसुरभिश्च इति विभागः ।
*अस्याप्युत्पत्त्यादयः पूर्ववत् इति । परमाणुष्वग्निसंयोगादुत्पद्यते विनश्यति च । कार्ये तु कारणगुणपूर्वकः, आधारविनाशादेव विनश्यतीत्यतिदेशार्थः । स्पर्शवैधय॑म्
स्पर्शस्त्वमिन्द्रियग्राह्यः, पृथिव्युदकज्वलनपवनवृत्तिः, त्वक्सहकारी, रूपानुविधायी, शीतोष्णानुष्पाशीतभेदात् त्रिविधः । अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववत् ।
*स्पर्शस्त्वगिन्द्रियग्राह्यः' इति प्रत्यक्षपरिच्छेद्यत्वं दर्शयति । पृथिव्युदकज्वलनपवनवृत्ति :- इत्याश्रयनिरूपणञ्च चतुर्णा स्पर्शवत्त्वमित्यनेन न पुनरुक्तम् । तत्र द्रव्यधर्मस्याभिधानात्, इह तु स्पर्शधर्मस्येति । पूर्वपदापेक्षं वा लक्षणम् । तथा च पृथिव्यादिवृतित्वमन्येषामप्यस्तीति त्वगिन्द्रियग्राह्यपदम् । तद्ग्राह्यञ्च स्पर्शत्वादिसामान्यमिति पृथिव्यादिवृत्तिपदम् ।
यदि संख्यादीनामपि त्वगिन्द्रियग्राह्यत्वे सति पृथिव्यादिवृत्तित्वं सम्भाव्येत, अवधारणं कार्यम् । अतः स्पर्शः, इतरस्माद् भिद्यते, त्वगिन्द्रिय20 ग्राह्यत्वे सति नियमेन पृथिव्यादिचतुर्द्रव्यवृत्तित्वात्, यस्त्वितरस्माद् न भिद्यते न चासावेवम्, यथा रूपादिरिति ।।
___ त्वक्सहकारी* इति । स्वगतस्पर्शोत्कर्षात् त्वगिन्द्रियं बाह्यस्पर्शप्रकाशकमित्यर्थक्रियानिरूपणम् ।
अथ त्वगिन्द्रियं स्पर्शस्य प्रकाशकम् । कस्मात् ? संयुक्तसमवायात् । 25 त्वगिन्द्रियेण संयुक्तं द्रव्यं तत्समवायात् स्पर्शो गृह्यत इति । नन्वेवं संयुक्त
समवायस्याविशेषाद् रूपादिप्रकाशकमपि स्याद् विशेषो वा वाच्यः, तन्न, स्पर्शोत्कर्षवद् रूपाद्युत्कर्षस्याभावात् । तथाहि, रूपादिषु मध्ये स्पर्शस्यैवो
For Private And Personal Use Only