________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
रसनसहकारी, मधुराम्ललवणतिक्तकटकषायमेवभिन्नः । अस्यापि नित्यानित्यत्व निष्पत्तयः पूर्ववत् ।
*रसो रसनग्राह्यः इति सद्भावे प्रमाणम् । *पृथिव्युदकवृत्तिः इत्याश्रयनिरूपणम्, पूर्वपदापेक्षं वा लक्षणमिति । तथाहि, पृथिव्युदकवृत्तित्वमन्येषामप्यस्तीति रसनग्राह्यपदम् । रसनग्राह्यञ्च रसत्वादिसामान्यं भविष्य- 5 तीति पृथिव्युदकवृत्तिपदम् । अतो रसः, इतरस्माद् भिद्यते, पृथिव्युदकवृत्तित्वे सति रसनग्राह्यत्वात्, यस्त्वितरस्मादरसादेन भिद्यते न चासावेवम्, यथा गन्धादिरिति ।
___ *जीवनपूष्टिबलारोग्यनिमित्तम् इत्यर्थक्रियानिरूपणम्। जीवनन्तु उपभोगदायककर्मसचिवस्यात्मनः स्वशरीरावरुद्धेन मनसा संयोगः, तस्य तु 10 निमित्तम् शरीराप्यायननिमित्तत्वात् । पुष्टिरवयवोपचयः । सा च विशिष्टरसोपयोगाद भवतीति । तथाहि, रसोपयोगादान्तरेण तेजसा पूर्वद्रव्यनिवृत्तौ स्वतन्त्रेषु परमाणुषु श्यामादिनिवृत्तिद्वारेणोत्पन्नपाकजैद्वर्यणुकादिप्रकमेण शरीरारम्भः प्रतिक्षणमाहारोपयोगे सति द्रष्टव्यः । न चारभ्यारम्भकवादः सम्भवतीत्युक्तं पृथिव्यधिकारे। बलमुत्साहस्तस्य प्राणसंवर्धनद्वारेण निमित्तम् । 15 आरोग्यं रोगाभावस्तस्यापि निमित्तं विशिष्टरसोपयोगे सति तच्छवणात् ।
*रसनसहकारी* इति । स्वगतरसोत्कर्षाद् बाह्यरसस्याभिव्यञ्जक इत्युक्तं पूर्वम् ।
*मधुराम्ललवणतिक्तकटुकषायभेदभिन्नः' इति विभागः । सोऽप्यसाधारणत्वाल्लक्षणम् । अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववदिति । 20 सलिलपरमाणुषु नित्यं पार्थिवेष्वग्निसंयोगादुत्पद्यते विनश्यति च । कार्येषु कारणगुणपूर्वः, आधारविनाशादेव विनश्यतीत्यतिदेशार्थः । गन्धवैधर्म्यम्
गन्धो घ्राणग्राह्यः, पृथिवीवृत्तिः, घ्राणसहकारी, सुरभिरसुरभिश्च, अस्याप्युत्पत्त्यादयः पूर्ववत् ।
2) *गन्धो घ्राणग्राह्यः इति सद्भावे प्रमाणम् । *पृथिवीवृत्तिः* इत्या
For Private And Personal Use Only