________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकजोत्पत्तिप्रकरणम्
पलम्भान्यथानुपपत्त्या ज्ञायते नियामकं कारणम्, नियमहेतुं बिना नियतस्य कार्यस्यानुपपत्तेः । तत्र स्पर्शोत्कर्षो नियामकः स्पर्शत्वं वा विषयगतम् । नचैतद् रूपादिषु सम्भवतीति स्पर्शत्वस्य तत्रासम्भवात् । रूपाद्युत्कर्षस्यापि त्वगिन्द्रियेण कार्याभावेनैवाभावप्रसिद्धेः । तथा च सूत्रकारेणाप्युक्तम् "रूपादिषु स्पार्शनं ज्ञानमिति कस्मान्न भवतीति तदभावात्” (वै० सू० ?) 5 स्पर्शत्वसामान्यस्याभावात्, यत्रैव स्पर्शत्वसामान्यं तत्रैव स्पार्शनं ज्ञानमिति । व्यतिरेको लभ्यत एव । स्पर्शत्वाभावस्तु त्वगग्राह्यत्वाभावस्य ज्ञापको न कारक इति । न च विशिष्टसन्निकर्षव्यतिरेकेणान्या योग्यता सम्भाव्यते, अन्वयव्यतिरेकाभ्यां तस्यैव व्यापारोपलब्धेरित्यलम् ।
___ रूपा विधायी इति साहचर्यं दर्शयति । रूपमनुविदधाति तच्छीलश्चेति 10 तदनुविधायी। यत्र रूप तत्रावश्यं स्पर्श इति । एवं रसगन्धानुविधायित्वमपीति । *शीतोष्णानुष्णाशीतभेदात् त्रिविधः' इति विभागकथनम् । *अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववत् इति । सलिलादिपरमाणुषु नित्यः पार्थिवेष्वग्निसंयोगविरोधी। कार्येषु कारणगुणपूर्वकस्तद्विनाशाद् विनश्यतीत्यतिदेशार्थः । रूपादोनां पाकजोत्पत्तिप्रकारः
पार्थिवपरमाणुरूपादीनां पाकजोत्पत्तिविधानम् । अथेदानों पार्थिवपरमाणुरूपादीनाम् इति परीक्षाशेषनिवर्तनाप्रकरणम् । तथा हि रूपादीनां पूर्वमुद्देशलक्षणाभिधानेऽपि (स्पर्शो ?) न परीक्षितः, प्रतिज्ञातञ्च तदतः परीक्षार्थमिदमारभ्यते । पृथिव्या इमे पार्थिवाः । १०
नन् चात्र भेदानुपपत्तेः कथं षष्ठी, तद्धितप्रत्ययश्चेति । तयोर्भेदे सत्यपलम्भात् ? न । कार्यरूपायाः पृथिव्या विवक्षितत्वात्, तज्जनकाश्च परमाणवस्ततो भिन्ना एवेति पार्थिवा इत्युच्यन्ते । जातिर्वा पृथिवीशब्देन विवक्षिता, तस्या इमे तत्सम्बन्धिनः पार्थिवाः । ते च ते परमाणवश्च तेषां रूपादय इति । आदिपदेन रसगन्धस्पर्शा एव गृह्यन्ते, न संख्यादयः, तत्परीक्षाशेष- परत्वेनैव सम्बन्धात् ।
For Private And Personal Use Only