________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्या
___ अतस्तेषां पाकजोत्पत्तिविधानम् प्रकार इति । अथ पाकाज्जाताः पाकजा इत्युत्पत्त्यर्यस्य जनिना प्रतिपादितत्वाद् व्यर्थमुत्पत्तिग्रहणम् ? न। उत्तरपदेन सम्बन्धात् । तथाहि, पाकजानामुत्पत्ति रेव विधीयतेऽनेनेति विधानं प्रमाणमुपेयम् । पूर्वगुणविलक्षणानां रूपादीनामुत्पत्तिः कार्ये सैव 5 प्रमाणमिति वक्ष्यामः ।।
यद्वा पच्यतेऽनेनेति पाकस्तेजोद्रव्यम्, पच्यत इति वा पाकः पार्थिवपरमाणवश्चेति पाको ताभ्यां जातः पाकजः, पार्थिवपरमाण्वग्निसयोगस्तस्मादुत्पत्तिः पार्थिवपरमाणुरूपादीनां श्यामादिविनाशश्चेत्युत्तरवाक्यसामर्थ्यात् ।
अन्ये तु श्यामादिविनाशोऽध्याहारेण लभ्यत इति मन्यमानाः पच्यतेऽनेनेति पाकोऽग्निसंयोगः, तस्माज्जातः पाकजः, श्यामादिविनाशः । तत एव पाकादुत्पत्तिविशिष्टरूपादीनामिति कष्टव्याख्यानं कुर्वते । तच्चासत् । अध्याहारादेर्दूषणस्यापरिहारात् ।
न चाभिव्यक्तिनिवृत्त्यर्थमुत्पत्तिग्रहणमिति वाच्यम्, परमतस्याप्र15 सिद्धत्वात्। तत्र प्रथमं कार्यद्रव्यविनाशप्रकारः
घटादेरामद्रव्यस्याग्निना सम्बद्धस्याग्न्यभिधातानोदनाद्वा तदारम्भकेष्त्रणषु कर्माण्युत्पद्यन्ते । तेभ्यो विभागाः; विभागेभ्यः संयोगविनाशाः, संयोगविनाशेभ्यश्च कार्यद्रव्यं विनश्यति ।
अथ केन प्रकारेण पाकजा जायन्त इत्युपदर्शयति *घटादेरामद्रव्यस्य इत्यादिना। घटादेरित्यादिपदेन शरीरादेरप्यवरोधः । तत्र हि पाकजोत्पत्तिपरिज्ञानात् तदासक्तिनिवृत्तौ विरक्तस्य श्रेयः सम्पद्यत इति । आमद्रव्यस्येति पक्वव्यवच्छेदार्थम्।
यद्यपि पार्थिवपरमाणुष्वहेतुकस्य रूपादेरसम्भवात् तेऽपि पाकादुत्पन्ना25 स्तथापि विशिष्टरूपापेक्षया श्यामादय इत्युच्यन्ते । तदाश्रयस्यामद्रव्यस्य ये
आरम्भकाः पारम्पर्येण परमाणवस्तेषु कर्माण्युत्पद्यन्ते । कुतः ? *अग्न्यभिघातान्नोदनाद् वा ।
20
For Private And Personal Use Only