________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२३७
तद्दर्शनाज्जातं परमार्थदर्शनजं सुखं करोति । तत् कृत्वा निवर्त्तते । तदा निर्गतं धर्माधर्मसमाख्यातं बीजं यस्यासौ तथोक्तस्तस्यात्मनः शरीरादिनिवृत्तिः । बीजाभावादेव पुनः शरीराद्यनुत्पत्तौ सत्यां* दग्धेन्धनानलवदुपशमो भोक्षः इति । यथा दग्धेन्धनस्यानलस्योपशमो ज्वालादिरहितस्यावस्थानम् तद्वदत्यन्तं विशेषगुणविमुक्तस्यात्मनोऽवस्थानं मोक्ष इति निर्णीतमादिवाक्ये ।।
शब्दोऽम्बरगुणः, श्रोत्रग्राह्यः, क्षणिकः, कार्यकारणोभयविरोधी, संयोगविभागशब्दजः, प्रदेशवृत्तिः, समानासमानजातीयकारणः । द्विविधो वर्णलक्षणो ध्वनिलक्षणश्च । तत्र अकारादिलक्षणः, शङ्खादिनिमित्तो ध्वनिलक्षणश्च । तत्र वर्णलक्षणस्योत्पत्तिः, आत्ममनसोः संयोगात् स्मृत्यपक्षाद् वर्णोच्चारणेच्छा, तदनन्तरं प्रयत्नः, तमपेक्षमाणा- 10 दात्मवायुसंयोगाद् वायौ कर्म जायते, स चोय गच्छन् कण्ठादीनभिहन्ति, ततः स्थानवायुसंयोगापेक्षात् स्थानाकाशसंयोगाद् वर्णात्पत्तिः। अवर्णलक्षणोऽपि भेरोदण्डसंयोगापेक्षाद् भेयांकाशसयोगानुत्पाद्यते। वेणपर्वविभागाद् वेण्वाकाश विभागाच्च शब्दाच्च संयोगविभागनिष्पन्नान वीचीसन्तानवच्छन्द सन्तान इत्येवं सन्तानेन श्रोत्रप्रदेशमागतस्य । ग्रहणम् (नास्ति ?), परिशेषात् सन्तानसिद्धिरिति ।
शब्दस्य लक्षणपरीक्षार्थमाह * शब्दोऽम्बरगुणः * इत्यादि । अम्बरगुणत्वाच्छब्द इत्युक्ते संख्यादिभिर्व्यभिचारस्तदर्थं श्रोत्रग्राह्य इति । शब्दः, इतरस्माद् भिद्यते, अम्बरगुणत्वे सति श्रोत्रग्राह्यत्वादिति । क्षणिक इति परीक्षार्थम् । पूर्वपदापेक्षं वा लक्षणम् ।
ननु चासिद्धं शब्दे क्षणिकत्वम्, प्रत्यभिज्ञानादेपलम्भात् । यमहमश्रौषं गोशब्दम्, तमेतहि शृणोमि इति श्रोतुर्विज्ञानमुत्पद्यमानमुपलब्धम् । न चेदमप्रमाणम्, अन्यताग्राहकप्रमाणानुपलब्धेः । तथा अर्थापत्त्या च शब्दस्य नित्यत्वं विज्ञायते । अनित्यत्वे हि सङ्केतकालानुभूतशब्दविलयोत्तरकालं शब्दान्तरोपलम्भादसङ्केतिता तदर्थप्रतिपत्तिर्न स्यात् । सा चोपलभ्यत 25 इति तदन्यथानुपपत्त्या शब्दस्य नित्यत्वं ज्ञायते ।
20
For Private And Personal Use Only