SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ व्योमवत्या 5 सञ्चितयोश्चोपभोगानिरोधे सन्तोषसुखं शरीरपरिच्छे? खे]दञ्चोत्पा रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शन सुखं कृत्वा निवर्तते, तदा निरोधात् निर्बीजस्यात्मनः शरीरादिनिवृत्तिः। पुनः शरीराद्यनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति । इदानीं कस्योपजातं कर्म संसारसम्पादकं कथञ्च निवर्त्तकमित्युपदर्शयति अविदुषो मिथ्याज्ञानवतो धर्माधर्मावुत्पन्नी संसारं सम्पादयतस्तदाह प्रवर्त्तकात् संसारसम्पादकाद् धर्मात् प्रकृष्टात् स्वल्पाधर्मसहितात् । इष्टानि च तानि शरीरेन्द्रियविषयसुखादीनि तैः । किविशिष्टै: ? आशयानुरूपैः कर्मानुरूपैर्योगः सम्बन्धो भवतीति । केषु स्थानेषु ? ब्रह्मेन्द्रप्रजापतिपितृ 10 ऋषि?]मनुष्यलोकेष्विति । * तथा प्रकृष्टादधर्मात् स्वल्पधर्मसहितात्, अनिष्ट शरीरेन्द्रियविषयदुःखादिभिर्योगः * ! केषु ? * प्रेततिर्यग्योनिस्थानेषु * इति । उपसंहारमाह * इत्येवं प्रवृत्तिलक्षणात् * तत्स्वरूपाद् । * धर्मादधर्मसहिताद् देवमनुष्यतिर्यनारकेषु पुन: पुन: संसारस्य प्रबन्धः सन्तानो भवतीति । प्रवर्तकाद्धर्मात् संसारोत्पत्तिमुपदिश्य निवर्त्तकात् तन्निवृत्तिमाह * ज्ञान15 पूर्वकात्तु कृतात् * इति । ज्ञानं पूर्व यस्य स तथोक्तस्तस्मात् । किं रूपात् ? *असङ्कल्पितफलात् इति । इत्थं मे शरीरेन्द्रियविषयाः सम्पद्यन्ताम्, नेत्थमित्येवं न सङ्कल्पितं फलं यस्य स तथोक्तस्तस्माद्, विशुद्धे कुले जन्म भवति । तस्य जातस्य दुःखविगमोपायजिज्ञासा सम्पद्यते कुतः साधनादत्यन्तं दुःख सन्ततेवियोगः सम्पद्यत इति । एवं जिज्ञासोराचार्योपसङ्गमः सम्पद्यते । 20 तञ्चोपसङ्गम्य दुःखसन्तानव्यावृत्तरुपायं विजानाति तत्त्वज्ञानाच्छ्रेयः सम्पद्यत इति । ततः शास्त्राभ्यासात् षटपदार्थतत्त्वज्ञानमुत्पद्यते । तस्य चोत्पन्नषट्पदार्थज्ञानस्य अज्ञाननिवृत्तिर्भवति । तन्निवृत्तौ विरागः, कारणाभावेन कार्यस्यानुत्पत्तेः । विरक्तस्य रागद्वेषाभावात् ताभ्यां जायेते यौ धर्माधर्मों तौ तज्जौ, तयोरनुत्पत्तिरिति, रागद्वेषयोधर्माधर्मजनकत्वेनोपलब्धेः । तदभावे तदभावो भवत्येव। सञ्चितयोश्च निरोधस्तत्त्वज्ञानादुपभोगाद् वा । ततो रागादिनिवृत्तौ सत्यां निवृत्तिलक्षणः केवलो धर्मः सन्तोषसुखं शरीरपरिच्छे?खे]दं चोत्पादयति। तच्चोत्पाद्य परमार्थः सर्वपदार्थानामात्मा 25 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy