SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३८ 5 www.kobatirth.org व्योमवत्यां Acharya Shri Kailassagarsuri Gyanmandir तदेतदसत् गृहीतग्राहित्वेन प्रत्यभिज्ञानस्याप्रमाणत्वात्; 'अनधिगतार्थगन्तृ प्रमाणम्' इति सामान्यलक्षणाभिधानात् । अथानधिगतार्थे प्रत्यभिज्ञानम् ? तन्न, अदृष्टार्थताया मिथ्यात्वप्रसङ्गात् । अथ स्वरूपेणाधिगतार्थमपीदानीन्तनं देशकालाद्यपेक्षयानधिगतार्थञ्चेति । , नन्वेवमप्युभयदोषोपनिपातप्रसङ्गः । प्रमेयसामग्र्याञ्च देशकालादेरन्तर्भावाभ्युपगमेऽनधिगतार्थत्वम्, एतावता प्रमेयस्य पूर्वमप्रतिपत्तेः । न च श्रोत्रव्यापारेण देशकालादेर्ग्रहणं दृष्टम् । अथ प्रमाणसामंत्र्यामन्तर्भावः तर्हि प्रमाणस्यान्यत्वेऽपि प्रमेयस्य तादवस्थ्यादधिगतार्थविषयत्वमेव । तदपेक्षया चेदं विशेषणम्, अन्यथा हि व्यवच्छेद्याभावादनुपपन्नमेव स्यात्, प्रमाणसामग्र्या 10 नियतविज्ञानजनकत्वात् । सर्वत्र प्रमेयभेदादेव विज्ञानभेद इत्यभ्युपगमे प्रतिज्ञानमन्यतायां क्षणिकताप्रसङ्गः । तस्मादनधिगतार्थगन्तृ प्रमाणमित्येवंवादिनो प्रमाणमेव प्रत्यभिज्ञानम् । तथा छिन्नोद्भूतकेशनखादिष्वन्यत्वेऽपि सादृश्यवशात् प्रत्यभिज्ञानम् । सामान्यादौ चार्थतथाभावादिति द्वैविध्योपलब्धेर्विशेषानुपलब्धौ शब्दे प्रत्यभिज्ञानम् । न च व्यञ्जकानां सन्दिग्ध15 त्वादप्रमाणत्वम् स्वतः प्रामाण्यस्य पूर्वमेव प्रतिषेधात् अन्यतः प्रमाणाद् अभेदप्रतिपत्त्यभ्युपगमे च तदेवास्त्वलं प्रत्यभिज्ञानेन । तथा व्यञ्जकानां क्षणिकतया शब्दज्ञानानन्तरमेव तिरोभावे शब्दस्य निर्विषयमेव स्यात् प्रत्यभिज्ञानम् । न च व्यञ्जकानां नित्यत्वम्, सर्वदा शब्दव्यक्तिप्रसङ्गात् । अथ प्रत्यभिज्ञानान्यथानुपपत्त्या तत्कालं यावदवस्थानम् ? न, 20 अन्यथापि तद्भावात् । अनित्यत्वेऽपि सादृश्यवशात् प्रत्यभिज्ञानमुत्पद्यत एवेति । विवादगोचरापन्नः शब्दोऽभिव्यक्तः प्रत्यभिज्ञानकालं यावन्नावतिष्ठते, शब्दप्रत्ययविषयत्वात्, पूर्वानुभूतशब्दवत् । न च प्रत्यभिज्ञानं नित्यत्वप्रतिपादनायालम्, अनित्येऽपि भावात् । अथावस्थायित्वं साध्यते ? तत्रापि सन्ततावस्थाने तदेव दूषणम् । 25 अवस्थानमात्रन्तु सिद्धसाधनम्, उपलम्भसङ्केत स्मरणक्रमेणार्थोपलम्भकालं यावदवस्थानाभ्युपगमात् । अथ पूर्वोपलब्धे शब्दे वर्षादिव्यवधानेनापि प्रत्यभिज्ञानाद् अन्तरालेऽवस्थानं साध्यते ? न अन्यत्वेऽपि प्रत्यभिज्ञानोप For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy