SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् २२१ स्थिते हि सद्भावे जीवनपूर्वकस्योत्पत्तिकारणमाह * आत्ममनसोः संयोगात् * असमवायिकारणाद् विशिष्टधर्माधर्मापेक्षादुत्पत्तिरिति । इतरस्तु इच्छाद्वेषपूर्वकः * हिताहितप्राप्तिपरिहारसमर्थस्य व्यापारस्य * कायिकव्यापारस्य हेतुः । तथा * शरीरविधारकश्च * । तेन हि प्रतिबद्धं शरीरे गुरुत्वं न पतनमारभते । तस्योत्पत्तिकारणमाह * आत्ममनसोः संयोगात् * असमवायि- 5 कारणात् । * इच्छापेक्षाद् द्वेषापेक्षाद् वोत्पद्यते - इति । गुरुत्ववैधर्म्यम् गुरुत्वं जलभूस्योः पतनकर्मकारणम् । अप्रत्यक्षम, पतनकर्मानुमेयम्, संयोगप्रयत्नसंस्कारविरोधि । अस्य च अबादिपरमाणुरूपादिवन्नित्यानित्यत्वनिष्पत्तयः। 10 गुरुत्वस्य लक्षणपरीक्षार्थं गुरुत्वं जलभूम्योः- इत्यादि प्रकरणम् । अप्रत्यक्षत्वे सति पतनकर्मकारणत्वाद् गुरुत्वम् इतरस्माद् भिद्यते। वेगोऽपि पतनकर्मकारणमित्यप्रत्यक्षग्रहणम् । जलभूम्योरिति आश्रयनिरूपणम् । इतरपदापेक्षं वा लक्षणम् । जलभूम्योरेव वर्तमानत्वे सति पतनकर्मकारणत्वाद् गुरुत्वम् । रसोऽपि जलभूम्योरेव वर्तते, न तु पतनकारणम्, अभ्युपगमे 15 [वा?च] कारणातिशयेन कार्यातिशयस्य अन्यत्रोपलब्धेः पाषाणादे रसातिशयाभावेन पातातिशयाभावः, पिप्पल्यादौ च तत्सद्भावेन सद्भावः स्यात् । स नास्तीति न रसः कारणं पतनोत्पत्तौ। रूपादेश्च कारणत्वे अनलादा वपि सद्भावात् पातः स्यात्, न चास्तीत्यतो रूपादिव्यतिरिक्तं कारणमनुमीयत इत्यत आह * पतनकर्मानुमेयम् * इति । आद्यस्य हि पतनकर्मणोऽसमवायि- 20 कारणं गुरुत्वम्, द्वितीयादेस्तु संस्कारोऽपीति । स चासौ जलभूम्योरेव वर्तते। ननु त्वगिन्द्रियस्य व्यापारात् पञ्चपलं दशपलमिति प्रतिभासनाद् गुरुत्वं प्रत्यक्षम् ? न, त्वगिन्द्रियेण सम्बन्धोपपत्तेः पृथिव्यादिगुरुत्वस्यापि प्रत्यक्षताप्रसङ्गात् । अथ आधेयगतमेव गुरुत्वं परिच्छिनत्ति त्वगिन्द्रियम्, न 25 च तत् पृथिव्यादिगुरुत्वेऽस्तीति । नन्वेवमपि मक्षिकादिगुरुत्वं परिच्छिन्द्यात्, For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy