________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
२४२
व्योमवत्यां संयोगविभागशब्दज इत्युत्पत्तिकारणम् । 'संयोगाद् विभागाच्छब्दाच्च शब्दनिष्पत्तिः' इति (वै० सू०)।
स द्विविधः । केन रूपेण ? वर्णलक्षणोऽवर्णलक्षणश्चेति । अकारादिहकारपर्यन्तो वर्णलक्षणः । शङ्खादिनिमित्तं यस्यासौ तन्निमित्तोऽवर्णलक्षण इति । आदिपदेनान्येषामपि निमित्तकारणानामवरोधः ।
तत्र वर्णलक्षणस्योत्पत्तिरभिधीयते। आत्ममनसोः संयोगादसमवायिकारणात् स्मृत्यपेक्षाद्वर्णोच्चारणेच्छा भवति । तदनन्तरं प्रयत्नः । तमपेक्षमाणाद् आत्मवायुसंयोगादसमवायिकारणाद् वायौ समवायिकारणे कर्म । स चोत्पन्नकर्मा वायुरूवं गच्छन् कण्ठादीनभिहन्तीति । आदिपदेन ताल्बोष्ठादेर्ग्रहणम् । ततः स्थानवायुसंयोगापेक्षात् स्थानाकाशसंयोगाद्वर्णोत्पत्तिरिति। आकाशं समवायिकारणं स्थानाकाशसंयोगोऽसमवायिकारणं स्थानवायुसंयोगश्चापेक्षाकारणमिति ।
अवर्णलक्षणोऽपि भेर्याकाशसंयोगादुत्पद्यते। भेरीदण्डसंयोगाद्यपेक्षाद् इत्यादिपदेन दिक्कालादग्रहणम् । अत्राप्याकाशं समवायिकारणम् । 15 भेर्याकाशसंयोगोऽसमवायिकारणं भेरोदण्डसंयोगादिनिमित्तकारणमिति ।
तथा वेणुपर्वविभागापेक्षात् पर्वाकाशविभागादसमवायिकारणादाकाशे शब्दो निष्पद्यत इति ।
शब्दजं शब्दमुपदर्शयति । एवं संयोगाद् विभागाच्च परिनिष्पन्नः शब्दः समन्तात् शब्दान्तराण्यारभते । तस्मादप्यसमवायिकारणात् स्वकारण20 प्रत्यासत्त्यपेक्षादाकाशेऽन्यः शब्द इति वीचीसन्तानवच्छब्दसन्तानः ।
यथा हि महतः पाषाणाद्यभिघातादुपजाता वीची वीच्यन्तरमारभते, सापि पुनर्वीच्यन्तरमिति सन्तानास्तद्वच्छब्दसन्तान इत्येवं सन्तानन्यायेन श्रोत्रदेशमागतस्य ग्रहणम् ।
एतच्च कल्प्यते; अन्यथा कर्णशष्कुल्याकाशसंयोगोपलक्षितनभ:25 प्रदेशव्यतिरेकेण प्रदेशान्तरसमवायात्तेषामव्याप्यवृत्तित्वेन विशिष्टप्रत्यासत्तेर
भावादग्रहणमेव स्यात् । तदाह श्रोत्रशब्दयोगमनासम्भवात् सन्तानानभ्युपगमे न परस्परं प्राप्तिः । प्राप्तस्य चोपलम्भ इति सन्तानः कल्प्यते ।
For Private And Personal Use Only