SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् २४३ नन्वेतस्मिन् पक्षे शब्दाः स्वावरुद्धनभोदेश एव यदि शब्दान्तरमारभेरन्, न कस्याप्युपलम्भः स्यात्, सर्वेषामेकत्रैवोपक्षयात् । अथ प्रदेशान्तरे, तहि ब्रह्मभाषितस्याप्युपलम्भोऽस्मदादिश्रोत्रदेशे शब्दान्तरारम्भात् । __अथाणुविवरमाने स्वदेशानन्तरमारभते। तहि तेषां क्षणशतादिव्यवधानेन ग्रहणं स्यात् । तत्तु न दृष्टं क्षणद्वयादिव्यवधानेन श्रवणात् । । तथा आद्यः शब्दः शब्दान्तरं नारभते, शब्दत्वादन्त्यशब्दवत् । अन्त्यशब्दो वा शब्दान्तरमारभते शब्दत्वादाद्यशब्दवत् । अत: सन्तानप्रतिषेधे शब्दोपलम्भान्यथानुपपत्त्या वायोर्व्यञ्जकस्यागमनं कल्प्यत इनि मन्यन्ते । न चैतद्युक्तम् । व्यक्तिपक्षस्य पूर्वमेव प्रतिपेधाद्वायारागमने प्रमाणाभावाच्च । न च शब्दोपलब्धि रेव प्रमाणम्, सन्तानन्यायेनापि तदुपपत्तेः। 10 यच्चात्र दूषणमुपन्यस्तं तद्वीचीनिदर्शनोपन्यासान्निरस्तम्। यथा हि महतः पाषाणाभिघातादुपजाता वीची स्वदेशानन्तरदेश एव बीच्यन्तरमारभते, न तटादावेवं शब्दोऽपि स्वकारणप्रत्यासत्तिमपेक्ष्यानन्तरदेश एव शब्दान्तरमारभत इति । न च क्षणशतादिव्यवधानेन ग्रहणप्रसङ्गः, पण्णामेव शब्दानां तीव्रादिभेदानामुत्पत्तेः । तथाहि भेरीदण्डाभिघातानुपजाते शब्दे 15 सन्निहितस्य तीव्रतमः शब्द इति ज्ञानम्, तदनन्तरं व्यवहितस्य च तीव्रतरः शब्द इति ज्ञानम्, ततस्तीवो मन्दो मन्दतरो मन्दतमश्चेति षड्भेदाः क्रमेणानुभूयन्त इति न आनन्त्यपक्षोक्तो दोषः। तथाहि मेरीदण्डाभिघातादेक एव शब्दः कल्पितं भूयांसं प्रदेश व्याप्योपजायत इत्यनेकैरप्युपलभ्यत एवेति न सर्वत्र सन्तानः । यच्चेदमुक्तम्--नाद्यः शब्दः शब्दान्तरभारभते 20 शब्दत्वादन्त्यशब्दवद् इति, तन्न स्वतन्त्रसाधनम्, स्वयमाद्यन्तशब्दाप्रसिद्धेः । न च दृष्टान्तदाान्तिकमिणोरप्रसिद्धौ हतोः पक्षवर्मत्वं बहिाप्तिर्वा सम्भवतीति । अथ परव्याप्त्या परस्यानिष्टापादनमेतत् । तन्न । यदि प्रमाणपूविका परव्याप्तिस्तयैव वाध्यमानत्वाद् विपरीतानुमानस्यानुत्थानम् । अथाप्रमाणपूर्विका ? तहि प्रमेयाप्रसिद्धराश्रयासिद्धं साधनम्, धासिद्धश्च 25 दृष्टान्त इति, शब्दस्य शब्दान्तरारम्भप्रतिषेधे स्वयमाद्यन्तविशेषणाप्रसिद्धः । तस्माद् व्यक्तिपक्षप्रतिषेधे शब्दोपलम्भान्यथानुपपत्त्या सन्तानकल्पना For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy