SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ व्योमवत्या 10 क्रियत इति । न चान्त्यशब्दस्यारम्भकत्वपरिकल्पनायां प्रमाणमस्ति, सर्वदोपलम्भप्रसङ्गात् । अतोऽन्त्यशब्दस्य स्पर्शवद्व्यसंयोगैकार्थसमवायेन प्रलयः स्वज्ञानादुपभोगप्रापकादृष्टापक्षयाद् वेति विनाशस्य प्रमाणेनोपलब्धेः, तस्य च निर्हेतुकत्वप्रतिषेधादुक्तकारणादेव विनाशः कल्प्यत इत्यलम् । ॥ इति श्रीव्योमशिवाचार्यविरचितायां पदार्थधर्मसङ्ग्रहटोकायां व्योमवत्यां गुणपदार्थः ॥ कर्मसाधर्म्यनिरूपणम् उत्क्षेपणादीनां पञ्चानामपि कर्मत्वसम्बन्धः । एकद्रव्यवत्त्वं क्षणिकत्वं मूर्तद्रव्यवृत्तित्वम् अगुणवत्त्वं गुरुत्वद्रवत्वप्रयत्नसंयोगजत्वं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वम् असमवायिकारणत्वम् स्वपराश्रयसमवेतकार्यारम्भकत्वं समानजातीयानारम्भकत्वं द्रव्यानारम्भकत्वञ्च प्रतिनियतजातियोगित्वम् । दिविशिष्ट कार्यारम्भकत्वञ्च विशेषः। इदानोमितरपदार्थवैधयेण स्वभेदव्यापकमुत्क्षेपणादीनां साधर्म्य तथा 15 परस्परव्यावृत्तं वैधयं कारणञ्च निरूपयन्नाह उत्क्षेपणादीनाम् इति । न परं द्वयोस्त्रयाणाञ्च । किं तहि ? पञ्चानामपि कर्मत्वसम्बन्धः, कर्मत्वोपलक्षितः समवायः । तथा चोत्क्षेपणादीनि, इतरस्माद् भिद्यन्ते, कर्माणीति वा व्यवहर्तव्यानि, कर्मत्वाभिसम्बन्धादिति । एकद्रव्यवत्त्व मिति । एकञ्च तद् द्रव्यञ्चेत्येकद्रव्यम्, तदस्यास्तीति एकद्रव्यवत्, 20 तस्य भाव एकद्रव्यवत्त्वम् । एकं कर्मकस्मिन्नेव द्रव्ये वर्तते, तथैक मेवैकस्मिन्निति । कुत एतत् ? एकस्मिश्चलिते सर्वेषां चलनानुपलब्धेः । यत्रापि बहूनामेककालं चलनं तत्राप्यनेकत्वमेव, कारणस्याभिघातादेः प्रत्याश्रयं भेदात् । अन्यत्र च समवेतमभिधातादि अन्यत्र समवायि कारणमित्यभ्युपगमे चाशेषद्रव्याश्रितस्योत्पत्तिः, अविशेषात् । तथैकस्मिन् 25 द्रव्ये संयोगाद् विनष्टे कर्मणि आश्रयान्तरेऽपि तस्यैकतायां विनाशः स्यात् । एकस्मिश्चानेककर्माभ्युपगमे विरुद्धदिगभिमुखतायां परस्परं प्रतिबन्धाद् अगमनमेव स्यात् । एकदिगभिमुखतायाञ्च एकेनैव कर्मणा संयोग For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy