________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणसामान्यसाधर्म्यम् गृह्यते । अवघारणन्तु एत एव बुद्ध्यपेक्षास्तथैते बुद्ध्यपेक्षा एब । बुद्धि बिना न भवन्तीति ।
___ रूपादयः स्नेहान्ताः समानजात्यारम्भका इति । समाना तुल्या जातियेषां ते समानजातयस्तानारभन्त इति तदारम्भका एव, न त्वेत एव समानजात्यारम्भका उभयारम्भकाणामपि सद्भावात् । अत्र चानुष्णग्रहणमुष्ण- 5 स्पर्शव्यवच्छेदार्थम्, तस्याप्युभयारम्भकत्वात् । एकत्वैकपृथक्त्वग्रहणं द्वित्वद्विपृथक्त्वादिव्यवच्छेदार्थम्, द्वित्वादेरसमानजात्यारम्भकत्वाद्, द्विपृथक्त्वादेश्चाकारणत्वादिति ।
तथा ह्यदकावयवेषु वर्तमाना रूपादयः स्नेहपर्यन्ताः कार्ये तानारभन्ते । गन्धस्तु क्षित्यवयवेषु वर्तमानस्तदवयविनि गन्धमारभते । शब्दश्चाकाशे 10 वर्तमानस्तत्रैव शब्दमिति ।
सुखादयः प्रयत्नान्तास्त्वसमानजात्यारम्भका इति । असमानजातीयमेवारभन्त इति तदारम्भकाः, न त्वेत एव, अन्येषामपि सद्भावात् । तथा च सुखादिच्छा, द्वेषाद् द्वेषः, ताभ्यां प्रयत्नः, तस्मात् क्रियेति । ___संयोगादयः संस्कारान्ता: समानासमानजात्यारम्भका इति । समाना 15 जातिर्येषां ते समानजातयस्तत्प्रतिषेधेन चासमानजातयः । तानारभन्त इति तदारम्भकाः । एत एव समानासमानजात्यारम्भकाः, नान्ये । तथैते समानासमानजात्यारम्भका एव नियमेन । तथाहि, संयोगात् संयोगः, विजातीयञ्च बुद्ध्यादि । विभागाद् विभागः, विजातीयश्च शब्दः । संख्यातः संख्या विजातीयञ्च परिमाणम् । गुरुत्वाद् गुरुत्वं विजातीयञ्च पतनम् । द्रवत्वाद् 20 द्रवत्वं विजातीयञ्च स्यन्दनम् । उष्णस्पर्शाद् उष्णस्पर्शो विजातीयाश्च पाकजाः । ज्ञानाच्च ज्ञानं विजातीयाश्च संस्काराः । धर्माधर्माभ्यां धर्माधर्मों विजातीये च सुखदुःखे । संस्कारात् संस्कारो विजातीयञ्च स्मरणम् । स्वपराश्रयसमवेतारम्भकगुणोद्देशः बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतारम्भकाः। 25 रूपरसगन्धस्पर्शपरिमाणस्नेहप्रयत्नाः परत्रारम्भकाः ।
For Private And Personal Use Only