________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५
गुणवैधर्म्यप्रकरणम् अन्ये तु कुड्यादय एव हस्त्यात्मना व्यवस्थिताः स्वप्नज्ञानस्यालम्बनमिति मन्यन्ते । यच्चेदम् असत्सु विषयेषूत्पद्यते स्वप्नज्ञानमित्युक्तं तदपि हस्त्यादिस्वरूपापेक्षया, तेन हि रूपेण तेषामसत्त्वादिति ।
तदेतदसत्, कुड्यादेरालम्बनत्वे प्रमाणाभावात् । न च स्वप्नोत्थितस्य 'ममैते कुड्यादयो हस्त्यादिरूपतया प्रतिभाता' इति प्रत्यभिज्ञानमस्ति। 5 नापीन्द्रियाणां कुड्यादिषु हस्त्यादिज्ञानजन्मनि व्यापारः सम्भवति, तद्व्यापारोपरमे सति तत्र ज्ञानस्य भवनात् । मनसोऽपि बहिर्विषये स्वातन्त्र्येण व्यापारः प्रतिषिद्ध एव । तस्मान्निविषय एव स्वप्नज्ञानमिति ।
अथ स्वप्नज्ञानं न विपर्ययादिभ्योऽर्थान्तरम् । तथाहि, स्वप्नज्ञानम् अतस्मिस्तदित्युत्पद्यमानं विपर्ययज्ञानमेव । किमयं स्थाणुः पुरुषो वेत्युभयोल्लेखित्वे 10 सति संशयज्ञानम् । किनामायमिति चोत्पादेऽनध्यवसाय इति न स्वप्नज्ञानमेतेभ्योऽर्थान्तरम् । पृथगभिधानन्तु शुभाशुभसूचकत्वादिति ।
नैतद् युक्तम्, कारणादिभेदेनास्य विपर्ययादिभ्योऽर्थान्तरत्वादिति केचित् । तथाहि, विपर्ययज्ञानं प्रत्यक्षानुमानविषये पित्तकफानिलोपहतेन्द्रियस्य पुरुषस्योत्पद्यते । संशयस्तु सामान्योपलम्भादितः प्रत्यक्षानुमानविषये प्रसिद्धो- 20 भयविशेषस्य भवतीत्येवमनध्यवसायस्यापि विलक्षणमेव कारणमुक्तम् । तद्विपरीतानि तु स्वप्नज्ञानोत्पत्तौ कारणानीति कारणभेदाद् भेदः । लक्षणभेदेऽप्यभेदाभ्युपगमे सर्वत्र तथाभावप्रसङ्गः । तथात्यन्ताप्रसिद्धेऽप्यर्थे स्वप्नज्ञानमुत्पद्यते, न चैवं विपर्ययादाविति । तस्मादुभयोल्लेखित्वादिसद्भावेऽपि स्वप्नलक्षणोपपत्तेः संशयादिविलक्षणं स्वप्नज्ञानमेवैतदित्यभ्युपगन्तव्यम् । 15
तत्तु त्रिविधम् । संस्कारपाटवात् धातुदोषात्, अदृष्टाच्च ।
तत्र संस्कारपाटवात् तावत् कामी कुद्धो वा यदा यमर्थमावृतश्चिन्तयन् स्वपिति तदा सैव चिन्तासन्ततिः प्रत्यक्षाकारा सजायते । .
धातुदोषात्, वातप्रकृतिस्तदूषितो वा आकाशगमनादीन् पश्यति । पित्तप्रकृतिः पित्तदूषितो वा अग्निप्रवेशकनकपर्वतादीन् पश्यति । श्लेष्म- 25 प्रकृतिः श्लेष्मदूषितो वा सरित्समुद्रप्रतरणहिमपर्वतादीन् पश्यति ।
For Private And Personal Use Only