________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् । न हि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ।। (श्लो. वा. २।७६)
न च ज्ञानस्यार्थपरिच्छेदकत्वं कारणगुणपूर्वकम्, इन्द्रियेषु तदभावात्, तदाह,
व्यापारः कारकाणां हि दृष्टो जन्मातिरेकतः । प्रमाणेऽपि तथा मा भूदिति जन्म विवक्ष्यते ।। (श्लो. वा. पृ० १५१)
यथा हीन्द्रियाणां जन्मव्यतिरेकणापरो व्यापारो नैवं ज्ञानस्य, अनन्तरमेव फलसम्पादकत्वात् । दृष्टञ्च परेणापि विशेषणादिज्ञानस्य विशेष्यादिज्ञान
जन्मनि प्रामाण्यमिति । अथोपजातमपि ज्ञानं न कारकपरिशुद्धेर्बोधं विना 10 अर्थपरिच्छेदकत्वभाक् ? तहि तत्रापि कारकपरिशुद्धिग्रहणं वाच्यमित्यनवस्था । तदाह,
जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते । यावत् कारणशुद्धत्वं न प्रमाणान्तरागतम् ।। (श्लो० वा० पृ० ६०) तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् । यावद्धि न परिच्छिन्ना शुद्धिस्तावदसत् समा ।। (श्लो० वा० पृ०६०) तस्यापि कारणे शुद्ध तज्ज्ञानस्य प्रमाणता । तस्याप्येवमितीत्थञ्च न कश्चिद् व्यवतिष्ठते ।। (श्लो० वा० पृ० ६१)
अथ विद्यमानमपि प्रमाणस्य प्रामाण्यं न प्रमाणान्तरसंवाद विना प्रमाणव्यवहारकारणम् ? तर्हि प्रमाणपरम्परायामुपक्षीणशक्तविवक्षितज्ञाने 20 प्रमाणव्यवहारो न स्यात् । तदाह,
सम्मत्या यदि चेष्येत पूर्वपूर्वप्रमाणता। प्रमाणान्तरमिच्छन्तो न व्यवस्थां लभेमहि ।। (श्लो० वा० पृ०६८) यदि च कस्यचित् स्वत एव प्रामाण्यमिष्येत परम्, आद्यस्यैवास्तु इत्याह, कस्यचित्तु यदीष्येत स्वत एव प्रमाणता। प्रथमस्य तथाभावे प्रद्वेषः किं निबन्धनः ॥
(श्लो. वा. पृ. ६९)
25
For Private And Personal Use Only