________________
Shri Mahavir Jain Aradhana Kendra
*
www.kobatirth.org
वैधर्म्यप्रकरणम्
विनाशे स्वर्गादिफलं न स्यात् । न च प्रदीपस्येवाभिव्यञ्जकत्वं तत्प्रकाशकत्वं क्रियायाः, तद्भावेऽपि तस्यानुपलम्भात् । अथ यागादिक्रिया धर्मस्य सामर्थ्यमुपजनयतीति चेत् ? तर्हि यत् तत् सामर्थ्यं स एव धर्मः, यत्राश्रितः स चात्मेति संज्ञाभेदमात्रं स्यात् । तथा अमूर्त्तस्यात्मना सम्बन्धाभावात् तत्सम्बन्धित्वेन फलाभाव इत्यलं प्रसङ्गेन । न च बोधात्मकमेव कर्म, व्यतिकानभ्युपगमे बोधरूपतया सर्वत्राविशेषेण जगद्वैचित्र्याप्रसङ्गात् । तस्योत्पत्तिकारणमाह पुरुषान्तःकरणसंयोगादसमवायिकारणादुपजायते । शुद्धाभिसन्धिज * इति अभिसन्धेर्निमित्तकारणत्वं दर्शयति । वर्णाश्रमिणां प्रतिनियतानि साधनानि निमित्तं यस्यासौ तन्निमित्तः । तदेवाह * तस्य तु साधनानि श्रुतिस्मृतिविहितानि ब्राह्मणादयः, आश्रमाश्च ब्रह्मचर्यादयस्तेषाम्, सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणीति ।
1
तत्र सामान्यानि धर्मे श्रद्धा, अहिंसा, भूतहितत्वम्, सत्यवचनम्,
अस्तेयम्, अनुपधा, ब्रह्मचर्यम्, क्रोधवर्जनम्, अभिषेचनम्, शुचिद्रव्यसेवनम् विशिष्टदेवताभक्तिः, उपवासोऽप्रमादश्च ।
* तत्र सामान्यानि साधनानि । धर्मे श्रद्धा भक्तिविशेषः कारणम् ।
蓉
अहिंसा तु यत्यादेः सर्वदा, अन्यस्य देशविशेषे कालविशेषे चेति । यथा तीर्थे
न हनिष्यामि, अमावास्यादौ । भूतहित्वमपि कस्यचित् सर्वदा, कस्यचिद् देशविशेषादाविति । सत्यवचनं धर्मसाधनम् यन्न परेषामनिष्टम् । उक्तञ्च 'न ब्रूयात् सत्यमप्रियमिति । अस्तेयमचौर्यम् । कस्याञ्चिदवस्थायां चौर्येऽपि 20 न दूषणमित्युक्तम् । यथा मुमूर्षोद्विजस्याशनमात्राहरणमिति । अनुपधा पराद्रोहः । ब्रह्मचर्यम् अपत्यसृजः करणस्योपस्थस्य संयमः तच्च कस्यचित् सर्वदा, कस्यचिद् देशकालविशेष इति । क्रोधवर्जनमप्येवम् । अभिषेचनं स्नानम् । शुचिद्रव्याणां सेवनमासनपरिधानाशनैः । विशिष्ट - देवताभक्तिरिति त्रयीप्रसिद्धानुमानावगतदेवताविशेषभक्तिः । उपवासोऽहोरात्रं 25 नैरशनता, कालविशेषादौ धर्मसाधनम् । अप्रमादो विहितानुष्ठाने निरालस्यम् ।
學
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*
२३१
5
| वर्णाश्च 10
15