________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
व्योमवत्यां
रथादिकर्ता भोक्तुरभिप्रायं विचित्रमपेक्षमाणस्तथैव तद्रचनां करोति एवं शरीरादिकर्तीपीति । न च शरीरोत्पत्तेः पूर्वमस्मदाद्यात्मनि बुद्धयादयः सन्ति, संस्कारस्तु स्मरणोत्पत्तावेवावगतसामर्थ्य इति गुणान्तरं तद्गतम
पेक्षमाणस्तदुपभोगनिष्पत्तये विचित्रं शरीरादिकमारभत इति । आगमस्तु 5 'यावदात्मनि धर्माधौं तावदायुः शरीरमिन्द्रियाणि विषयाश्चे'ति, तथा 'क्षीयन्ते चास्य कर्माणी'ति ।
येषान्तु बुद्धिगुणो धर्मस्तेषां कथं नाकर्मनिमित्तः स्वर्ग: ? तथाहि प्रलयावस्थायां बुद्धेः प्रधाने प्रलीनतया धर्माधर्मयोरनभिव्यक्ती प्रधानस्य बुद्धयादिभावेन परिणामो न स्यात्, अभिव्यक्तस्य कर्मणः कारणत्वाभ्युपगमात् । न चादावनभिव्यक्तमेव कारणम्, बुद्धिस्थञ्चाभिव्यक्तमिति वाच्यम्, विशेषहेत्वभावात् । बुद्धयादिसम्पादितं कर्म कर्तुर्भोगसम्पादकमित्यभ्युपगमे च अविशेषेण सकलपुरुषोपभोगसम्पादकं स्यात्, नियमहेत्वभावात् । तथा मुक्तात्मनोऽपि शरीरादिसम्पादनाय प्रवर्त्तत, अविशेषादिति संसारित्वप्रसङ्गः ।
गुणपुरुषान्तरविवेकादर्शनच्च प्रधानप्रवृत्तेर्न कारणम्, पूर्वमेव प्रतिषेधात् । 15 येऽपि परमाणुरूपो धर्म इति मन्यन्ते, तेषामपि तस्य नित्यतायां
सकलक्रियाविलोपप्रसङ्गः, मरणाद्यभावश्च । अनित्यता तु परमाणुरूपतायां न सम्भवत्येव, तस्य परमाणुत्वेनोत्पत्तिविनाशकारणाभावात् । तथा परमाणूनां धर्मशब्देनाभिधाने संज्ञाभेदमात्रमेव स्यात् । अथ परमाणुगुणौ
धर्माधर्मी ? एवमपि सर्वपुरुषाणाम् एकाकारो भोगः स्यात्, पुण्यापुण्या20 धिकरणैः परमाणुभिरारम्भाविशेषात् ।।
__अथ केचित् पुण्याधिकरणा: परमाणवोऽन्ये चापुण्याधिकरणाः । तत्राधिकैः पुण्याधिकरणैरारब्धे सुखातिशयोऽधिकैश्चापुण्याधिकरणःखमिति चेत्, अत्रापि तयोनित्यत्वे मरणाद्यभावप्रसङ्गः । अनित्यत्वन्तु न युक्तम् । परमाणुविशेषगुणानामस्मदादिव्यापारेणोपपत्तेरदर्शनात् ।
अन्ये त्वनाश्रितो धर्म इति मन्यन्ते, तत्रापि अनित्यपक्षे न किञ्चिद् अनाश्रितं वस्तुभूतं कार्यं सम्भवतीति दूषणम् । नित्यपक्षे तु यागादिक्रियाविलोपप्रसङ्गः । अथ क्रियाभिव्यक्तः कार्यकारण: ? तर्हि क्षणिकत्वेन क्रिया
25
For Private And Personal Use Only