SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०३ गुणवैधयंप्रकरणम् तमः घटवत्, यनिष्क्रियं तद् अद्रव्यं दृष्टञ्चेति लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता वेधर्म्यनिदर्शनाभासा इति । * अनेन [निदर्शनाभासाः] * निदर्शनवदाभासन्त इति निदर्शनाभासास्तत्समानधर्माणः । * निरस्ता भवन्ति * इति स्ववाक्ये परिवर्जनार्थं परवाक्ये चोद्भावनार्थं निरूप्यन्ते । * तद् यथा नित्यः शब्दः अमूर्तत्वात्, 5 [यद्?] यद् अमूर्तं दृष्टं तन्नित्यं दृष्टं?] यथा परमाणुः * इति । साधनस्यामूर्तत्वस्य परमाणावभावात् साधनविकलमुदाहरणम् । अस्मिन्नेव साध्ये 'यथा कर्मेति' साध्यविकलम्, नित्यत्वस्य कर्मण्यभावात् । 'यथा स्थाली' इत्युभयविकलम्, नित्यत्वस्यामूर्तत्वस्य च स्थाल्यामभावात् । 'यथा तमः' इति धर्मासिद्धम्, सांख्याभ्युपगतस्य तमसोऽप्रसिद्धत्वात् । 'अम्बरवत्' इति 10 साध्यसाधनाधिकरणत्वेऽपि अननुगतो वचनदोषः । यद् यद् अमूर्तं दृष्टं तत्तन्नित्य दृष्टं यथा अम्बरमिति वचनं विना अनुगतस्याप्रतीतेः । यद् वा सम्यग्दृष्टान्तोऽपि आकाशासत्त्ववादिनो न साध्यसिद्धि करोति यावन्न प्रमाणतो व्यवस्थाप्यत इत्याभास उच्यते । अन्ये तु आभासावसरे सम्यग्दृष्टान्तोपदर्शनम् आभासानाम् आभास- 15 ताज्ञापनार्थम् । इत्थम्भूतं हि निदर्शनम्, एतत्प्रतिरूपकाणि च तदाभासा इति । * यद् यद् द्रव्यं तत्तत् क्रियावद् दृष्टम् * इति च विपरीतानुगमः । तथा च एवं अवतो द्रव्यत्वं व्याप्यं क्रियावत्त्वञ्च व्यापकं स्यादिति विपरीता व्याप्यव्यापकभावप्रतिपत्तिः । न चैतदस्ति, आकाशादौ क्रियावत्त्वं विनापि 20 द्रव्यत्वोपलब्धेः । समव्याप्तिकेऽपि साधनस्य व्यापकत्वाभिधाने साध्यस्य प्रतिपत्तिर्न स्यादितिदूषणम् । विषमव्याप्तिके विपरीतानुगमो दोषो न समव्याप्तिके इति चान्ये । अत्रोपसंहारवाक्यं लिङ्गश्च, अनुमेयश्च, उभयञ्च, आश्रयश्चेति लिङ्गानुमेयोभयाश्रयाः, ते असिद्धा येषु आभासेषु ते तथोक्ताः, ते च अननुगताश्च, विपरीतानुगताश्चेति * लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानु- 25 गताः साधर्म्यनिदर्शनाभासाः । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy