________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
व्योमवत्यां
वैधय॑निदर्शनाभासान् दर्शयति - यदनित्यं तन्मर्तं दृष्टं यथा कर्म * इति साधनाव्यावृत्तम्, तस्य हि अमूर्तत्वादिति । तस्मिन्नेव साध्ये 'यथा परमाणुः' इति साध्याव्यावृत्तं व्यतिरेकोदाहरणम्, परमाणोनित्यत्वादिति ।
'यथा आकाशम्' इत्युभयाव्यावृत्तम्, अमूर्तत्वस्य नित्यत्वस्य च तत्राव्यावृत्ति5 रिति । 'यथा तमः' इति धर्मासिद्धम्, सांख्याभ्युपगतस्य तमसोऽप्रसिद्धत्वादिति । 'घटवत्' इत्युभयाव्यावृत्तावपि अव्यतिरेकः, यद् यन्नित्यं न भवति तत्तदमूर्तं न भवतीति वचनं विना व्यतिरेकस्याप्रतिपत्तेः । घटासत्त्ववादिनो वा प्रमाणेनाप्रतिपादितो न साध्यसिद्धि करोतीति आभास उच्यते,
* यन्निष्क्रियं तद् अद्रव्यं दृष्टम् * इति व्यतिरेकः । साध्यव्यावृत्त्या हि साधन10 व्यावृत्तिर्वाच्या, न तु साधनव्यावृत्त्या साध्यव्यावृत्तिः, क्रियावत्त्वाभावेऽपि
आकाशादौ द्रव्यत्वस्य साध्यस्याव्यावृत्तेः, साधनाभावो हि व्यापकः साध्याभावो व्याप्य इति । एतेषामुपसंहारः, लिङ्गञ्च, अनुमेयश्च, उभयञ्चेति लिङ्गानुमेयोभयानि, तानि अव्यावृत्तानि येषु आभासेषु ते लिङ्गानुमेयो
भयाव्यावृत्ताः, ते च आश्रयासिद्धञ्च अव्यावृत्तञ्च विपरीतव्यावृत्तञ्चेति 15 * लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता वैधर्म्यनिदर्शनाभासाः * इति।
निदर्शनेऽनुमेयसामान्येन सह दृष्टस्य लिङ्गसामान्यस्य अनुमेये. ऽन्वानयनमनुसन्धानम् । अनुमेयधर्ममानत्वेनाभिहितं लिङ्गसामान्यमनु
पलब्धशक्तिकं निदर्शने अनुमेयधर्भसामान्येन सह दृष्टम् अनुमेये येन 20 वचनेनानुसन्धीयते तदनुसन्धानम् । तथा च वायुः क्रियावानिति । अनुमेयाभावे च तस्यासत्त्वमुपलभ्य, न च तथा वायुनिष्क्रिय इति ।
एवं सह आभासैनिदर्शनमुपदर्य अनुसन्धाननिरूपणार्थमाह * निदर्शनेऽनुमेयसामान्येन सह * इत्यादि । * निदर्शने * दृष्टान्ते । * अनुमेयसामान्येन * साध्यसामान्येन । * सह दृष्टस्य लिङ्गसामान्यस्य अनुमेये * पक्षे । * अन्वानयनमनुसन्धानम् * । आनयनं प्रतिपादनमन्यस्यापि सम्भवतीति लिङ्गस्येति पदम् । तथापि लिङ्गस्य निदर्शने प्रतिपादनमस्तीति तद्व्युदासाय अनुमेयपदम् । अनुमेये च गृहीताविनाभावस्य लिङ्गस्य प्रतिपादकं हेतुवचनमपीति निदर्शने
For Private And Personal Use Only