________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणसामान्यसाधर्म्यम् हस्तादौ क्रिया, धर्माधर्माभ्यामग्न्यादौ किया। संयोगविशेषास्तु नोदनाभिघातसंयुक्तसंयोगास्तेऽपि क्रियाहेतव एव । गुरुत्वादीनां गुरुत्वजनकत्वस्याप्युपलब्धेः । असमवाय्यादिकारणगुणोद्देशः, अकारणगुणकथनञ्च
रूपरसगन्धानुष्णस्पर्शसंख्यापरिमाणकपृथक्त्व
स्नेहशब्दानामसमवायित्वम् । बुद्धिसुखदुःखेच्छाषप्रयत्नधर्माधर्मभावनानां निमित्तकारणत्वम् । संयोगविभागोष्णस्पर्शगुरुत्वद्रवत्ववेगानामुभयथा कारणत्वम् ।
परत्वापरत्वाद्विक्त्वादीनामकारणत्वम् । इदानीमसमवायिनिमित्तोभयथाकारणान्याह रूपादिशब्दान्तानामसमवायि- 1 कारणत्वम् इति ।
अथ किमिदमसमवायिकारणत्वं नाम? प्रत्यासन्नस्य कार्यजनकत्वम् । यद् यस्य प्रत्यासन्नं सज्जनकत्वेनोपलब्धसामर्थ्यं व्याप्त्या तत् तस्योत्पत्तावसमवायिकारणम् ।
का पुनरियं प्रत्यासत्तिः ? एकार्थसमवायः । सा तु भिद्यते कार्यकार्थ- 15 समवायलक्षणा कार्यकारणैकार्थसमवायलक्षणा चेति । कार्येण सहकस्मिन्नर्थे समवायो लक्षणं चिह्नमस्या इति तल्लक्षणा। यथा शब्दस्य शब्दोत्पत्ताविति। कार्यशब्दो ह्याकाशे वर्तते तत्रैव कारणशब्दोऽपीति कार्यकार्थसमवायोऽस्य प्रत्यासत्तिरिति । तथा बुद्ध्याद्युत्पत्तावात्मान्तःकरणसंयोगस्य । स ह्यात्मनि वर्तते बुद्ध्यादयोऽपि तत्रैवेति ।
20 नन्वेवं बद्ध्यादीनामपि स्वकार्योत्पत्तावेकार्थसमवायित्वादसमवायिकारणत्वमेव न निमित्तत्वम् ? नैष दोषः । संयोगस्याशेषकार्योत्पत्ती व्याप्त्या सामोपलब्धेः, न चैवं बुद्ध्यादेरन्यतरस्येति । तस्य प्रतिनियतकार्योत्पत्तावेव सामर्थ्यावधारणात् । आत्मान्तःकरणसंयोगस्त्वशेषबुद्ध्यायुत्पत्तावुपलब्धसामर्थ्य मिति स एवासमवायिकारणम् । न जातुचिन्मनःसंयोगादृते 25 बुद्ध्यादयो भवन्तीति । तथा च सुषुप्त्यवस्थावसाने विज्ञानादिकमुत्पद्यत इति मनःसंयोगस्तत्र कारणम् ।
For Private And Personal Use Only