________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामान्यवैधयंप्रकरणम्
२७१
पुनरप्युक्तम् शब्दोऽर्थांशकमाहेति तत्रान्यापोह . उच्यते । आकारः स च नार्थेऽस्ति तं वदन्नर्थभाक्कथम् ।। इति ।
(प्र. वा. ३।१६७ ) वृत्त्यनुपपत्तेश्च न वास्तवं सामान्यमस्तीति । तथा चैकत्र वर्तमानं 5 सामान्यं नैकदेशेन वर्तते, तदभावात्; न सर्वात्मना, अन्यत्र वृत्त्यभावप्रसङ्गात् । तथा येनैव रूपेणैकत्र वर्त्तते तेनैव अन्यत्रापीत्यभ्युपगमे सर्वपिण्डानामेकताप्रसङ्गः । अथ स्वरूपान्तरेण, तर्हि स्वरूपभेदात् तस्य नानात्वं प्रसज्यते । स्वभावान्तरनिवृत्तौ चानेकत्र वृत्तित्वं विरुध्यत इत्युक्तम् । देशकालावस्थाविशेषविनियतैकसंसर्गाव्यवच्छिन्नस्वभावान्तरविरहादनेकत्र वृत्ते- 10 रेकस्य न देशादिविशेषवता अन्येन योग इति ।
तत्र देशविशेषो नगरादिः, कालविशेषो वसन्तादिः, अवस्थाविशेषो बाल्यादिः, तेषु विनियतः सर्वात्मना प्रतिष्ठितो यथोक्तस्वभावश्चासौ एकश्च, तेन संसर्गः सम्बन्धः, तत्संसर्गेण अव्यवच्छिन्नमक्रोडीकृतम् उक्तस्वभावात् स्वभावान्तरम्, तेन विरहो वियोगः, 15 तद्रहितत्वादिति हेत्वर्थः । अनेकवृत्तरेकस्येति मिनिर्देशः, न देशादिविशेषवता अन्येन योग इति साध्यधर्मनिर्देशः, रूपादिवदिति दृष्टान्तः । प्रयोगः पुनरेवं भवति यस्य यथोक्तस्वभावान्तरविरहः, न तस्य देशादिविशेषवता अन्येन योगः, यथा रूपादिः । अस्ति च सामान्यादेरसाविति विरुद्धोपलब्धिः। यदि चैकं तेन च स्वरूपेण सर्वैः सम्बध्येत सामान्यम् 20 सर्वपिण्डानामेकदेशकालावस्थायोगिताप्रसङ्गः, तद्देशादिविशेषितपिण्डवृत्तिस्वरूपत्वात् सामान्यस्य। यदा चैकस्मिन् पिण्डे देशादिविशेषिते समुपलभ्यते, तदैवाशेषस्याश्रयविशेषितस्योपलम्भ: स्यात्, तस्यैकरूपत्वादिति । अनेकवृत्तित्वानभ्युपगमे च रूपादिवदेकाश्रयत्वात् सामान्यरूपता न स्यादिति । ___न च सामान्यस्य स्वभावान्तरमस्ति येनानेकवृत्तित्वं 25 स्यादित्युक्तम् । न च सामान्यस्य नियताश्रयेण सम्बन्धे नियमहेतुरस्तीति ।
For Private And Personal Use Only