________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
व्योमवत्यां
तथा गोत्वं सम्बध्यमानं न गवा सम्बध्यते, गोत्वसम्बन्धात् पूर्व पिण्डस्य तद्रूपत्वासम्भवात् । अथ अगवा सम्बध्यते, तर्हि तस्याश्वेनापि सम्बन्धः स्यात्, गोत्वाभिसम्बन्धात् पूर्वम् अगोरूपतायाः सर्वत्र साधारणत्वात् ।
यत्र च गोपिण्डादिर्वर्त्तते न तत्र गोत्वादिसामान्यं समवैतीति तदाश्रयिणा 5 तु सम्बद्धयत इति चित्रम् ।
यत्रासौ वर्त्तते भावस्तेन सम्बद्धयते न तु । तद्देशिनन्तु व्याप्नोति किमप्येतन्महाद्भुतम् ।।
(प्र० वा० १।१५५) तथा पिण्डे व्रजति न सामान्यस्य गमनमस्ति, निष्क्रियत्वात् । 10 नाप्यवस्थानम्, पिण्डस्य तच्छून्यताप्रसङ्गात् । न भागेन गमनमवस्थानञ्च,
निरंशत्वात् । नापि पश्चादागत्य अभिसम्बद्धयते, पूर्वं तच्छून्यस्यानुपलब्धेः । तदुक्तम्
न याति न च तत्रासीदस्ति पश्चान्न चांशवत् । जहाति पूर्वं नाधारमहो व्यसनसन्ततिः ।।
(प्र० वा० ३।१५१) तदेतदसत् । जातिप्रद्वेषान्धतया प्रमाणमार्गपरिभ्रष्टैरभिहितमिति समाधीयते । तथा हि चक्षुरादिव्यापारेण अनुगतज्ञानस्याबाध्यमानस्योपलब्धेरवश्यमनुगतं निमित्तं वाच्यम् । न च वासनैव निमित्तम्, तस्याः
पूर्वमेव प्रतिषेधात् । यदि च वासना विशिष्टप्रत्ययहेतुर्बाह्या चेति, संज्ञा20 भेदमात्रमेव स्यात् । बोधान्तर्भाव तु बोधरूपतया तस्याः सर्वत्राविशेषाद्
विकल्पवैचित्र्यं न स्यात्, गोपिण्डदर्शनाद् गवाकारों विकल्पोऽश्वपिण्डदर्शनाच्चाश्वाध्यवसायी इत्यादि । न च देशादिभेदेनापि अबाध्यमानोऽध्यवसायो निविषयः सम्भवतीति "पररूपं स्वरूपेण यया संवियत" (प्र० वा० ११६९ ) इत्यपास्तमेव ।
यच्चेदम् 'व्यक्तयो नानुयन्त्यन्यदनुयायि न भासत' इति, असदेतत्, अनुगतज्ञानेन तस्य प्रतिभासनात् । यथाहि स्वलक्षणं व्यावृत्तरूपतया प्रतिभासनाद् अस्ति एवम् अनुगतस्वरूपतया प्रतिभासनात् सामान्यमप्यस्तीति । यदि च व्यावृत्तिज्ञाने सामान्यस्याप्रतिभासनाद् असत्त्वम् स्यात् ?
For Private And Personal Use Only