SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सामान्यवैधयंप्रकरणम २७३ अनुगतज्ञानेऽपि स्वलक्षणस्याप्रतिभासनाद् असत्त्वम् [एव स्यात् । तस्माद् यथा अबाध्यमानज्ञाने नीलादेः प्रतिभासनात् सत्त्वम्, एवमनुगतज्ञाने प्रतिभासनात् सामान्यस्यापि सत्त्वमभ्युपगन्तव्यम् । वृत्तिविकल्पादेबर्बाधकस्याप्रमाणत्वादिति । तथा हि वृत्त्यनुपपत्तेरसत्त्वमिति नेदं स्वतन्त्रसाधनम्, अनेकान्तात् । स्वतन्त्र हि रूपादीनां सत्त्वमनुपपद्यमानवृत्तित्वञ्चेति । एवं 5 परपक्षेऽनुपपद्यमानवृत्तित्वेऽपि आकाशादीनां सत्त्वमिति । स्वरूपासिद्धश्च. वृत्तेः समवायस्य सत्त्वात् । एकदेशेन सर्वात्मना च न वर्तत इति अयुक्तो विशेषप्रतिषेधः, प्रकारान्तरस्यासम्भवात् । अभिन्नस्वरूपत्वाच्च सामान्यस्य न तत्र एकदेशसर्वशब्दयो: प्रवृत्तिः, तयोभिन्नेष्वेव प्रवृत्तिदर्शनात् । समवायेन च वर्त्तते सामान्यम्, नैकदेशेन स्वरूपेण वा, तस्य एकदेशस्य 10 स्वरूपस्य चावृत्तिरूपत्वादिति। यदेव चैकस्मिन् पिण्डे स्वरूपं सामान्यस्य तदेव पिण्डान्तरेऽपि, अनुगतज्ञानजनकत्वस्य सर्वत्र सम्भवात् । तदाह एकद्विबहुषु पिण्डेष्वात्मस्वरूपानुवृत्तिदर्शनात् स्वप्रत्ययकारणमिति । सामान्यस्यात्मस्वरूपमनुवृत्तमभिन्नम्, अतोऽनुवृत्तिप्रत्ययस्यानुगतज्ञानस्य कारणमिति । न च सामान्यस्याभेदे पदार्थानां तथाभावः, ततोऽन्यत्वात् । अत एव नैकस्मिन् देशादिविशेषिते पिण्डे सामान्यस्योपलम्भाद् अशेषविशेषितस्याप्युपलम्भप्रसङ्गः, तेषामनियतदिग्देशसम्बन्धित्वेनोपलम्भाभावात् । यथैव च क्रमेण विशेषा उपलभ्यन्ते तथैव तद्विशेषितं सामान्यमपीति । यदा हि पण्य ? ञ्च पुरावस्थितगोपिण्डानां वसन्तसमये बालाद्यवस्थाविशेषिता- 20 नामुपलम्भस्तदा तद्विशेषितं सामान्यमुपलभ्यते अन्यदा त्वन्यविशेषितमिति पिण्डेष्वनुगतज्ञानजनकत्वं सामान्यस्य सर्वत्राव्यभिचारिस्वरूपम् । तस्मादभेदात्मकमनेकवृत्ति च सामान्यं प्रत्यक्षेणोपलम्भाद् अभ्युपगन्तव्यम् । यथा हि रूपमेकमेव एकत्र वर्तमानं प्रत्यक्षेणोपलब्धं तद्वदेकं सामान्यमनेकत्रेति । यच्चेदं देशादिविशेषितस्वभावाद् अनेकवृत्तेरेकस्य न देशादिविशेषवता अन्येन योग इत्युक्तम्, तत्र व्यर्थविशेषणता हेतोमणश्च । तथा हि एकसंसर्गाव्यवच्छिन्नस्वभावान्तरविरहान्न सामान्यस्य विशेषान्तरेण 25 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy