________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
व्योमवत्यां
योग इति प्रतिषेधे साध्ये व्यभिचाराभावात् साध्यसाधनयोर्देशादिविशेषणमनर्थकम्, व्यवच्छेद्यसद्भावे हि विशेषणस्यार्थवत्तोपपत्तेः । ___ अथ यथोक्तस्वभावान्तरविरहे कथमन्ययोगः सामान्यादेः, अन्ययोगे
वा कथं यथोक्तस्वभावान्तरविरहः ? तयोरन्यत्र रूपादौ प्रतिबन्धसिद्धिरिति 5 चेत्, न, व्यभिचारात् । तथा हि रूपाश्रयस्य रूपसंसर्गाव्यवच्छिन्न
स्वभावान्तरविरहेऽपि रसादिभिर्योगो दृष्टः; तद्वत् सामान्यस्याप्याश्रयान्तरेण योगः केन वार्यते, रूपाश्रयवत् सामान्येऽपि यथोक्तस्वभावान्तरासत्त्वस्याविशेषादिति । अस्ति च रूपस्याश्रयो द्रव्यमित्युक्तम् ।
अथैकत्वात् सामान्यस्य अनेकत्र समवायः प्रतिषिद्धयते ? तर्हि यदने10 कत्र समवेतम् तदनेकमेवेत्यभ्युपगमे हेतोय॑तिरेकाव्यभिचारेणैव गमकत्वाद्
एकत्र समवेतानां रूपादीनामेकता प्रसज्येत, न चैतदस्ति । अथ एकत्वादेकत्रैव समवायः साध्यते ? तदप्यनैकान्तिकम् । आकाशादेरेकत्वेऽप्येकत्रैव समवायाभावात् । यद्यनेकत्र समवायादनेकत्वप्रसङ्गोऽभिधीयेत्, तथापि
यदेकं तदेकत्र समवेतमिति व्यतिरेकाभावः, सत्यपि आकाशादावेकत्वे 15 तदभावात् । एकत्र समवायादेकत्वम् इत्येतदपि रूपशब्दादिभिरनैकान्तिकम् ।
एकत्वस्य सामान्यविशेषरूपत्वात् तस्मिन् साध्ये हेतोरन्वयव्यतिरेकाभावादगमकत्वम् । एवं निर्विशेषणस्य हेतोरन्तरः साध्यसाधनभावप्रकारो निरस्तः । तथा सविशेषणस्यापि हेतोराकाशादिनानैकान्तिकत्वम्, तस्य हि देशादिविशेषवता अन्येन योगेऽपि तधोक्तस्वभावान्तरविरहोपलब्धेः ।
यच्चेदं प्रदीपप्रभाया देशादिविशेषणविशिष्टाया न देशादिविशेषवता अन्येन योग इत्युदाहरणम्, तत्रापि उत्पत्तेरू+मवयवक्रियाक्रमेण विनाशाभ्युपगमाद् अनेककालव्यवधाने देशादिविशेषवता अन्येनापि योगः सम्भवत्येव । न च प्रदीपप्रभायां साध्यसाधनसद्भावेऽपि हेतोर्व्यभिचारोपदर्शनाद्
गमकत्वम् । तथा सामान्यस्य स्वभावान्तरविरहोऽसिद्धः, 'तदाधारान्तरस्य 25 तद्विशेषकत्वेन तत्स्वभावान्तरत्वात् । प्रतीयते चाधाराधेययोर्विशेषण
विशेष्यभावः, यथा सद्रव्यम्, द्रव्यस्य सत्तेति । तस्मात् स्वभावान्तरविरहोऽपि साध्य एवेति । तथानेकवृत्तेरेकस्य न देशादिविशेष वता
For Private And Personal Use Only